________________
अनेकान्तजयपताकासदसत्वयोरभिन्नत्वात् तत्स्वात्मवादित्थमपि कथमेकमुभयरूपम् ।
इह च प्रक्रमे नानुपन्यस्तानामादौ शठोक्तीनामपाकरणानीति कृत्वा ता एवोपन्यस्यन्ते शठोक्तयः । तत्र शठाः प्रागुक्तलक्षणाः, सदसनित्यानित्याद्यनेकरूपमादिशब्दात् सामान्यविशेषादिपरिग्रहः । वस्तु चेतनाचेतनम् । घटज्ञानादि अनुभवन्तोऽपि न प्रतिपद्यन्त इति योगः । कथमित्याह-प्रतिनियतादिसंवेदनानुभवेन । प्रतिनियतं तदन्याभवनस्वभावम् , आदिशब्दादनुवृत्तिव्यावृत्तिस्वभावादिपरिग्रहः; संवेदनं विज्ञानं, प्रतिनियतादि च तत्संवेदनं चेति समासः । तस्यानुभवस्तन हेतुना । अन्यथा वस्तुनः सदसदादिरूपतां विहाय तदनुपपत्तेः । प्रतिनियतादिसंवेदनानुभवानुपपत्तेः कारणात् । अनुभवन्तोऽपि वस्तुस्थित्या ज्ञानज्ञेयापेक्षया उभयथा वस्तुस्थितिमाश्रित्य कुतो न प्रतिपद्यन्त इत्याह-अनादिकर्मसामर्थ्यदोषतः । अनादियोगादनादि, अनादि च तत्कर्म च अनादिकर्म; कर्म ज्ञानावरणीयादि, तस्य सामर्थ्यमात्मनो भ्रान्तिपरिणामाद्यापादनलक्षणम् , ततो दोषः, आत्मनो भ्रान्तिपरिणामादिति विग्रहस्ततः । अनेनेश्वरादिव्यवच्छेदमाह । तस्य वीतरागत्वादिना दोषहेतुत्वायोगात् । किमिव न प्रतिपद्यन्त इत्याह- भवसमुद्रनैर्गुण्यमिव । भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः संसारः; समुद्र इवानर्वाक्पारत्वाद्भवसमुद्रः; तस्य नैर्गुण्यं निर्गुणत्वं जन्मानित्यादिभावेनेति भावः; तद्वद्भवंसमुद्रनैर्गुण्यामव न प्रतिपद्यन्ते । सत्प्रतिपत्त्या तद्विकारेष्वेवास्थया प्रवृत्तेरिति । न केवलं यथोक्तं वस्तु न प्रतिपद्यन्ते । किंच । अपायेत्यादि । अपायहेतुश्चासौ नरकादिनयनेन असदभिनिवेशश्चालीकनिर्बन्धरूपतयेति समासः । तेनाध्मातमापूरितं मानसं चित्तं येषां ते तथाविधाः । किमित्याह- प्रत्यवतिष्ठन्ते च । प्रत्यवस्थानं च कुर्वन्ति । कथमित्याह-कथमिति क्षेपे । एकमेव । तथोपलम्भात् । घटादिरूपं वस्तु आदिशब्दाद्विज्ञानादिपरिग्रहः । सञ्चासच भवति । द्विरूपं नैवेत्यभिप्रायः । एतदेव भावयति- तथाहीत्यादिना । तथाहीत्युप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org