________________
स्वोपज्ञटीकासहिता। तदत्र सावदनेकान्तजयपताकाऽभिधानेन शठोक्त्यपाकरणमनन्तरप्रयोजनम् । कर्तुः परम्पराप्रयोजनं तु धर्मः, उक्तवदनिन्धमार्गप्रवृत्तेः, विषये कृपासाफल्यकरणाच्च । अभिधेयमप्येतदेव । तथाऽभिधीयमानं कर्मरूपापन्नमिति साध्यसाधनलक्षणश्च सम्बन्धः । श्रोतृणां त्वनन्तरप्रयोजनं प्रकरणार्थपरिज्ञानमेव, परम्पराप्रयोजनं धर्म एवेति । एवं च नारब्धव्यमेवेदं प्रकरणम्, प्रयोजनादिरहितत्वात् , उन्मत्तकविरुतवदित्येवमादि निराकृतमेव ।।
सांप्रतमधिकृतप्रयोजनानुवादेनैव विवक्षितमुपक्रमते
इह च नानुपन्यस्तानां शठोक्तीनामपाकरणानीति ता एवोपन्यस्यन्ते-तत्र शठाः सदसन्नित्यानित्याधनेकरूपं वस्तु प्रतिनियतादिसंवेदनानुभवेनान्यथातदनुपपत्तेः अनुभवन्तोऽपि, वस्तुस्थित्याऽनादिकर्मसामर्थ्यदोषतो भवसमुद्रनैर्गुण्यामिव न प्रतिपद्यन्ते अपायहेत्वसदभिनिवेशाध्मातमानसाः प्रत्यवतिष्ठन्ते च; कथमेकमेव घटादिरूपं वस्तु सच्चासच भवति । तथाहि-सत्त्वमसत्वपरिहारेण व्यवस्थितम् , असत्त्वमपि सत्त्वपरिहारेण। अन्यथा तयोरविशेषः स्यात् । ततश्च तद्यदि सत्कथमसत् ? ,अथासत्कथं सदिति ? ; एकत्र सदसत्त्वयोर्विरोधात् । · तथा चोक्तम्. “यस्मात् सत्त्वमसत्त्वं च विरुद्धं हि मिथो द्वयम् । ___ वस्त्वेकं सदसद्रूपं तस्मात् खलु न युज्यते"॥१॥ .
किं च । सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्त्वं च वस्तुधर्मतयाऽभ्युपगतं भवति । ततश्चात्रापि वक्तव्यम्-धर्मधर्मिणोः किं तावद्भेदः, आहोखिदभेदः, आहोखिद् भेदाभेद इति । तत्र यदि तावद्भेदः, ततः सदसत्त्वयोर्भिन्नत्वात् कथमेकं सदसद्रूपमिति । अथाभेदस्ततः सदसत्त्वयोरेकत्वमेकस्माद्धर्मिणो भिन्नत्वात् तत्स्वरूपवत् अतोऽपि कथमेकं सदसद्रूपमिति ? । धर्मिणो वाऽभेदः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org