________________
अनेकान्तजयपताका
भिरस्मद्वंशजैराचरित इति । हेत्वन्तरमाह- कृपातश्च करुणातच | कृपायतनमेव हि शठोक्तिभिर्मोहिता जडाः, कारुणिकस्य तथास्वभावत्वादिति । न शक्त्यभावे कृपामात्रेणेष्टसिद्धिरित्याशङ्कयाह - जिनवचनेत्यादि । जिनवचनस्य श्रवणात् कारणात्, नोऽस्माकमिति ग्रन्थकार आह । शक्तिरपि न नास्ति; द्वौ प्रतिषेधौ प्रकृतमर्थं गमयत इति कृत्वाऽस्त्येव । तत्रेति प्रकरणकरणे, तस्यैव जिनवचनस्य, सद्बोधद्देतुभावात्कारणात् ;
उक्तं च
"जिनवचनात् सद्बोधो नियमाचिन्तामणेः सुखं यद्वत् । विध्याप्तादनुबन्धी तद्वदिति निदर्शनं ह्येतत् ॥ १ ॥
हेत्वन्तरमाह - तुच्छत्वादसारत्वाद्वा करणात्., शठोक्तीनामधिकृतप्रकरणनिराकार्याणामिति । अनेन विषयाल्पतया सौकर्यमाह । तुच्छत्वं पुनरित्यादि । तुच्छत्वं पुनरसारत्वं, पुनरासां शठोक्तीनां, निदर्शितम्, पूर्वसूरिभिः पूर्वाचार्यैः सिद्धसेनदिवाकरादिभिः, बहुधा अनेकधा, न्यक्षेण विस्तरेण, सूक्ष्मयुक्तिभिर्निपुणोपपत्तिभिः, अतिगम्भीरं निदर्शितमिति क्रियाविशेषणम् ; तदुत्थानासंभवपरतयेत्यर्थः । स्वशास्त्रेषु सम्म - त्यादिषु । यद्येवं किमनेनेत्याह- तत्तु शठोक्तीत्यादि । तत्पुनस्तुच्छत्वमासां, शठोक्तिविमूढाः सन्तः, न जडाः प्राणिनः, संजानते अवगच्छन्ति, यतः यस्मात्तेन कारणेन, संदर्श्यते तत्प्रतिपत्त्यानुगुण्येन सम्यग् दर्श्यते। कथमित्याह- समासस्थूरोक्तिशठोक्त्यपाकरणैः समासेन स्थूरोक्तिभिः शठोक्त्यपाकरणानीति विप्रहस्तैरपि । एवं प्रयोजनादिप्रसङ्गमभिधायाह- प्रारभ्यत इत्यादि । प्रारभ्यते प्रक्रम्यते, ततस्तस्मात्कारणात्, इदमित्यनेनान्तस्तत्त्वनिष्पन्नं बुद्धौ व्यवस्थितं प्रकरणमाहसम्यगिति जडप्रतिपत्त्यानुगुण्येन, अनेकान्तजयपताकाख्यं आख्या संज्ञा अनेकान्तजयपताकासंज्ञकम् । प्रकरणमिति प्रक्रियन्ते अर्थाः स्वस्थानस्थापनाभिव्यक्त्याऽस्मिन्निति प्रकरणम् । किं विशिष्टमित्याहउक्तगुणयुतं, समासस्थूरोक्तिशठोक्त्यपाकरणरूपम् । किमर्थमित्याहजडावबोधाय मन्दमत्यवबोधार्थम् । एतदेव विशिनष्टि - धर्मफलम् । धर्मः फलं प्रयोजनमस्येति धर्मफलम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org