________________
खोपज्ञटीकासहिता। अत्रापीत्यादि। अत्राप्याकुलवादे, येनाकारेण भेदस्तेन भेद एव प्रवृत्तिनिमित्तभेदात् , येन चाभेदस्तेनाभेद एवाऽभिन्ननिमित्तत्वात्, इत्येवं तदवावर्तते पूर्वोक्तम्, इति चक्रकम् , अनवस्था वा।। किञ्चेत्यादि । किञ्च । भेदाभेदमभ्युपगच्छता परेण, अवश्यमेवेदमङ्गीकर्तव्यमिह पक्षे, धर्मधर्मिणोधर्मधर्मितया भेदः नियतस्वरूपतया, स्वभावतः पुनरभेदः वस्तुत्वेनेत्यर्थः । किमित्येतदेवमित्याह-वभावतो हि तयोर्धर्मधर्मिणोभेदेऽङ्गीक्रियमाणे परस्परतः प्रविभक्तरूपं पदार्थद्वयमेव धर्मर्मिरूपम् , अङ्गीकृतं स्यान पुनरेकं वस्तु,द्विरूपमिति । यदि नामैवं ततः किमित्याशङ्कथाह-तदत्रापि निरूप्यते । नहि नैव, अनासादितस्वभावभेदयोधर्मर्धामणोधर्मधर्मितयापि नियतस्वरूपतया, भेदो युज्यते । एतदेव भावयति-तथाहीत्यादिना। तथाहि-यदि यो धर्मस्य स्वभावः वस्तुत्वलक्षणः, स एव धर्मिणोऽपि नान्यः । एवं सत्यसौ धर्मी धर्म एव स्यात् तत्स्वभावत्वाद्धर्मस्वरूपवदिति दृष्टान्तः । धर्मो वा धर्मिस्वरूपव्यतिरिच्यमानमूर्तिः सन् धर्मिमात्रमेव स्यात् तत्स्वरूपवदिति । ततश्चैवं धर्मर्मिणौ द्वावपि, स्वभावभेदानासादनेन हेतुना, अप्रतिलब्धभेदौ सन्तौ कथं भेदनिमित्तं भवतइति ? स्वभावभेदान्नैव भवत इत्यर्थः । न चेत्यादि । न च स्वभावतोऽपि सकाशात्, तयोर्धर्मधर्मिणोः, भेदाभेदकल्पना युक्ता। कुत इत्याहपूर्वोक्तदोषानतिवृत्तेः । पूर्वोक्तदोषाश्चात्रापि येनाकारेण भेदस्तेन भेद एवेत्यादयः । तथा चोक्तमिति ज्ञापकमाह-भेदो वेत्यादिना । भेदो वा स्यादभेदो वा द्वयं वा भेदाऽभेदलक्षणम् , धर्मर्मिणोः । किश्चात:भेदे नैकं वस्तु, अनेकं स्यादनेकत्वादेव । अभेदेऽपि न युज्यते एकमनेकमेकत्वादेव, द्वयपक्षोऽपि चायुक्तो भेदाभेदपक्षः । कुत इत्याह-विकल्पानुपपत्तितः। इयं चोक्तवद्योजनीया । तेनानेकान्तवादोऽयमज्ञैः प्राणिभिः, समुपकल्पित इति ।। . किञ्च । संविनिष्ठा विषयव्यवस्थितयः। न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावात् । तथाहि-नाक्षजे विज्ञाने सदसत्त्वे प्रतिभासते, असत्त्वस्पारूपत्वात्, रूपत्वे चासत्चविरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org