________________
अनेकान्तजयपताका
तुच्छत्वं पुनरासां प्रदर्शितं पूर्वमूरिभिबहुधा । न्यक्षेण मूक्ष्मयुक्तिभिरतिगम्भीरं स्वशास्त्रेषु ॥ ८ ॥ तत्तु शठोक्तिविमूढा न जडाः सञ्जानते यतस्तेन । संदर्यते समासस्थूरोक्तिशठोक्त्यपाकरणः ॥ ९॥ मारभ्यते तत इदं सम्यगनेकान्तजयपताकाख्यम् । प्रकरणमुक्तगुणयुतं जडावबोधाय धर्मफलम् ॥ १०॥
तत्र शिष्टानामयं समयो यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्त्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्त्तन्ते । अयमप्याचार्यों न हि न शिष्ट इत्यतस्तत्समयप्रतिपालनाय, तथा श्रेयांसि बहुविनानि भवन्तीतिः
उक्तं च" श्रेयांसि बहुविघ्नानि भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां कापि यान्ति विनायकाः" ॥११॥ इति । इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्योभूतं वर्तते, अतो मा भूद्विन्न इति विघ्नविनायकोपशान्तये, तथा प्रेक्षापूर्वकारिणः प्रयोजनादिशून्ये न प्रवर्तन्ते इति प्रयोजनादिप्रतिपादनार्थ चेति । अत्र कश्चिदाह- प्रकरणकारो हि प्रेक्षापूर्वकारी स किमर्थ प्रकरणादौ तदसंबद्धमिष्टदेवतास्तवमाह । न च विघ्नविनायकोपशान्तिकरणेन प्रकरणनिष्पस्यङ्गतया तत्संबद्धः; स्तवविघ्नयोर्विरोधासिद्धेः । तद्भावेऽपि कचिद्विनभावात् तदभावेऽपि चाऽभावादिति। प्रयोजनादिप्रतिपादनमप्यनर्थकमेव, तत एव सम्यक्प्रयोजनाद्यनवगतेः । प्रकरणार्थपरिज्ञानपुरस्सरमेव तत्कथमन्यतो भवत्यतस्तत्प्रतिपादनेऽपि तदाशङ्काऽनिवृत्तिरेवेति । एतच्चासारम् । प्रकरणकारो यत एव प्रेक्षापूर्वकारी अत एव तनिष्पत्त्यर्थ प्रकरणादौ तदङ्गरूपमिष्टदेवतास्तवमाह । संभवत्यत्र विघ्नः प्रागुपात्ताशुभकर्मोदयलक्षणः, स चेष्टदेवतास्तवकरणतः प्रशस्तभावोपपत्तेः उपशाम्यतीति तनिष्पत्त्यङ्गमेव । एवं च जलानलवत् स्तवविनयोर्विरोध एव । न चेहाप्यतिप्रबलोऽग्निः स्वल्पेन जलेनोपशाम्यति, न चाल्पः स्वयमपि नोपशाम्यति, न चाऽनयोन विरोधः; इत्येवं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org