________________
खोपज्ञटीकासहिता।
तद्भावेऽपि कचिद्विघ्नभावात्तदभावेऽपि चाभावादिति वचनमात्रमेतत् ।। प्रयोजनादिप्रतिपादनमपि सार्थकमेव, तत एव सामान्येन सम्यक्झयोजनाद्यवगतेस्तथाव्यवहारदर्शनात् । तदवगतौ हि तद्विशेषपरिज्ञानार्थ प्रकरणे प्रवृत्तेः, ततस्तज्ज्ञानभावात् । एवं च प्रकरणार्थपरिज्ञानपुरस्सरमप्येतद्विशेषेण सामान्येनान्यतो भवतीति न दोषः । अतो न तत्प्रतिपादनेऽपि तदाशङ्काऽनिवृत्तिरेव, सामान्येन निवृत्तेर्विशेषाशङ्कानिवृत्तेरप्युपायाभिधानात्, सदुपायैर्विशेषसिद्धेः; अन्यथा सकलव्यवहारोच्छेद इत्यलं चसूर्या । दिङ्मात्रप्रदर्शनार्थत्वादारम्भस्येति । इह चाद्ययाऽऽर्यया इष्टदेवतास्तवमाह, तदन्याभिस्तु सप्रसङ्गं प्रयोजनादीत्यार्यासमूहसमुदायार्थः ॥ अधुनाऽवयवार्थ उच्यते- तत्र जयति विनिर्जितराग इति । अत्र जयतीति क्रिया भूतपूर्वगत्या तथोपचारत उक्ता, तत्प्रकर्षफलाप्रच्युत्यपेक्षया वा, अनेकार्थत्वाद्वा धातूनां जयतीति किमुक्तं भवति सर्वान गुणैरतिशेते । विनिर्जितः विविधमनेकैः प्रकारैः प्रतिपक्षभावनादिभिर्निराधिक्येनापुनर्जेयतया जितो विक्षिप्तो रागोऽभिष्वङ्गलक्षणो येन स विनिर्जितरागः । द्वेषोपलक्षणमेतत् । अयमेव विशेष्यते- सर्वज्ञ इति । सर्व सूक्ष्मव्यवहितविप्रकृष्टं वस्तु जानातीति सर्वज्ञः । अयमेव विशेष्यते- त्रिदशनाथकृतपूज इति । त्रिदशनाथा इन्द्राः शक्रादयस्तैः कृता पूजा अशोकाद्यष्टमहाप्रातिहार्यादिलक्षणा यस्य स त्रिदशनाथकृतपूजः । अयमेव विशेष्यते- सद्भूतवस्तु वादी इति । सद्भूतं यथावस्थितं वस्तु बदितुं शीलं यस्य सः सद्भूतक्स्तुवादी । अयमेव विशेष्यते- शिवगतिनाथ इति । शिवगर्मोक्षमते थः; तद्वशीकरणात्स्वामी शिवगतिनाथः । कोऽयमेवंभूत इत्याहमहावीर इति । शूर, वीर, विक्रान्ताविति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः । ईर गतिप्रेरणयोरित्यस्य वा, विशेषेण ईस्यति कर्म गमयति याति वेह शिवमिति वीरः । इत्येष स्तवः । अयं च यथाभूतान्यासाधारणगुणोत्कीर्तनरूपत्वात् भावस्तवः। तथा हि । गुणा मूलातिशयाश्चत्वारः । तद्यथा-अपायापगमातिशयः,ज्ञानातिशयः, पूजातिशयः, वागतिशयश्च । तत्र विनिर्जितराग इत्यनेशापायापगमातिशयमाह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org