SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ अहम् श्रीविजयधर्मसूरिभ्यो नमः । श्रीहरिभद्रसूरिकृताअनेकान्तजयपताका स्वोपज्ञटीकासहिता। स्वपरोपकृतये अनेकान्तजयपताकाऽऽख्यप्रकरणस्य व्याख्या प्रस्तूयते इह चादावेवाचार्यः शिष्टसमयपरिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थ चेममार्यासमूहमाह जयति विनिर्जितरागः सर्वज्ञस्त्रिदशनाथकृतपूजः । सद्भूतवस्तुवादी शिवगतिनाथो महावीरः ।। १ ।। य इहानिन्धो मार्गो विशेषतः पूर्वगुरुभिराचरितः । तत्र प्रवर्तितव्यं पुंसा न्यायः सतामेषः ॥२॥ यद्यपि न तथाभूता शक्तिः प्राकर्मदोषतस्तदपि । शक्त्यनुरूपमुपायो न यतस्तत्माप्तयेऽप्यन्यः ॥ ३॥ सत्यपि गुणवत्येव तु स चान्यभावेऽपि पण्डितैर्गदितः । यत्रैव यस्य शक्तिः सात्म्यं च विशेषतस्तेषाम् ॥ ४॥ स तमाराधयितुमलं यस्मादाराध्य चैनमामोति । शक्त्यन्तरं छुपायान्तरसाधकमुत्तमं नियमात् ॥ ५ ॥ (युग्मम् ) तस्मान्ममापि जाता शठोक्तिभिर्मोहितान् जडान् वीक्ष्य । प्रकरणकरणसमीहा पूर्वनिमित्तात्कृपातश्च ॥६॥ जिनवचनश्रवणानः शक्तिरपि न नास्ति तत्र तस्यैव । सद्बोधहेतुभावात्तुच्छत्वाद्वा शठोक्तीनाम् ।। ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002732
Book TitleAnekantajaypataka Swopagnya Tika
Original Sutra AuthorHaribhadrasuri
Author
PublisherZZZ Unknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy