________________
स्वोपज्ञटीकासहिता।
२८३
द्वयायोगेन हेतुना; किमित्याह-धी-ध्वन्यभाव एव द्वयोर्धी-ध्वन्योरभाव एव । कुत इत्याह- हेत्वभेदे फलभेदासिद्धेः कारणात् । ततश्चाज्ञानानभिधानेन संहारवादादिचिन्तानुपपत्तिरिति भावनीयमेतत् ।।
एतेन 'सर्वात्मकत्वे च भावानाम्' इत्याद्यपि प्रत्युक्तम् , तुल्ययोग-क्षेमत्वात् , निरूपितवस्तुन एव तस्य ज्ञापकत्वेनाभिधानात् । एवं चाक्रमेणाप्यनेकधर्मके वस्तुनि पुरःस्थितेऽप्यसंपू.
ज्ञानदोषः क्रमज्ञानदोषश्च प्रत्युक्तः, तथाविधावरणदोषतस्तदुपपत्तेः । न ह्यर्थसंनिधिरित्येवायोगिनां सर्वाकारमेव तदवगमः, तस्यानेकधर्मत्वात् , अवगमस्य च कारणान्तरापेक्षत्वात् । अर्थों हि यथाधर्माभ्यासमवगमं जनयति, यथाङ्गनार्थः संनिधानाविशेषेऽपि परिवादप्रभृतीनां कुणपाधवगमम् : प्रत्यासत्तितो वा, यथा जनकाध्यापकः सुतस्य जनकावगमम् ; प्रकरणापेक्षो वा, यथा वैद्यादिस्तत्कथायां प्रस्तुतायां तदर्शिनां तत्रानेकधर्मसंभवेऽपि वैद्याधवगमंमिति । न चैकस्यानेकत्वविरोधेन तत्रानेकधर्मत्वासंभवः, एकत्वानभ्युपगमात् , एकानेके च विरोधासिद्धेः, इतरेतरानुवेधात् , जात्यन्तरात्मकत्वोपपत्तेः, तथासंवेदनादित्युक्तपायम् ॥ __एतेनेत्यादि । एतेनानन्तरोदितेन वस्तुना, 'सर्वात्मकत्वे च भावानाम्' इत्याद्यपि पूर्वपक्षोक्तम् , प्रत्युक्तम् । कुत इत्याह-तुल्ययोग-क्षेमत्वात् अनन्तरोदितेन । अत एवाह- निरूपितवस्तुन एव तस्य 'सर्वात्मकत्वे च भावानाम्' इत्यादेः, ज्ञापकत्वेनाभिधानात् पूर्वपक्षे । एवं चेत्यादि एवं च कृत्वा, अक्रमेणापि युगपदपि, अनेकधर्मके वस्तुनि पुरःस्थितेऽपि सति, असंपूर्णज्ञानदोषः, संपूर्णे तदयोगात् , क्रमज्ञानदोषश्चाक्रमे तदयोगादेव, प्रत्युक्तः । कथमित्याहतथाविधेत्यादि । तथाविधावरणदोषतः- असंपूर्ण-क्रमज्ञानहेतुचित्रक्षयोपशमनिबन्धनावरणदोषेण, तद्भावोपपत्ते.- असंपूर्ण-क्रमज्ञान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org