________________
२८२
अनेकान्तजयपताका
वस्त्रादीति निदर्शनम् , 'पटोऽयम्' इति । तथाक्षयोपशमवत्त्वं च चित्रक्षयोपशमवत्त्वं च, प्रमातुः, 'अविरुद्धमेवेति योगः । प्रभास्वरस्य प्रकृत्या स्वभावेन बोध हास-वृद्धथुपलब्धेः कारणात् , किमित्याह- आगन्तुककर्ममलभावेन हेतुना, द्रव्याद्यव्याप्तितो द्रव्य-क्षेत्रकाल-भव-भावावाप्तेः, अविरुद्धमेव 'तथाक्षयोपशमवत्त्वम्' इति क्रिया निदर्शितैव । न चैतदित्यादि न चैतद् बुद्धिद्वयमपि सदुष्ट्रादिप्रतिभासम्, न तन्निमित्तं नोष्ट्रनिमित्तम् , किं तर्हि ? उष्ट्रनिमित्तमेव । कुत इत्याह- तद्भावभावित्वाविशेषात् तथाहि- यथा सद्बुद्धिरुष्ट्रभावभाविनी, एवमुष्ट्रबुद्धिरपि । एवमप्येकस्य; प्रक्रमात् सद्बुद्धः, अन्यथा कल्पने- अतन्निमित्तत्वकल्पने, अतिप्रसङ्गः, उष्ट्रबुद्धेरप्यतन्निमित्तत्वप्रसङ्गात् । नाविकल्पबुद्धेरभेदे विकल्पभेदो न्याय्य इति । ततश्च स्थितमेतत्- ‘एवं सर्ववस्तुशबलभावेऽपि तथाक्षयोपशमवत्प्रमातुर्गुणप्रधानभावेन कचिदन्यासंसृष्टाकाराया इव बुद्धेः सिद्धेः' इति । तथावाचकस्यापि भावात् तथा तेन प्रकारेण, क्वचिदन्यासंसृष्टाकारस्येव वाचकस्यापि शब्दस्यापि भावात् । भावश्च कथञ्चित् प्रवृत्तिनिमित्तभेदाद् गुणप्रधानभावेन, विप्रकृष्टो हि प्रमाता तत्र तथाप्रतिपत्तिवीर्यतोऽप्रधानगुणभूतमपि भावेन गुणभूतोष्ट्रत्वादिविशेषं पटुप्रतीत्यपेक्षापादितप्रधानभावं सन्मात्रमवैति' इत्युक्तमित्यादि । ततश्चास्ति कथञ्चित् प्रवृत्तिनिमित्तभेदो वाच. कस्येति भावनीयम् । तथासंहारवादोपपत्तिः- तथा प्रधानगुणभावेन, संहारवादोपपत्तिः 'सन्तुष्टः' 'सद् दधि' इति । शेषमित्यादि शेषं तु पूर्वपक्षोक्तं 'तत्सिद्धौ वा तत एव तत्स्वभावभेदात् तदेकरूपतैव' इत्यादि, अनभ्युपगमादेव कारणात् , न नः क्षतिमावहति- नास्माकं पीडां प्रापयति । एतदेवाह- केवलग्रहणपुरस्सरसंहारवादासिद्धेः असिद्धिश्च नरसिंह-मेचकवदिति निदर्शनम् , वस्तुनो दध्यादेः, जात्यन्तरत्वाभ्युपगमात् । परस्य त्वयं दोष एवेति निदर्शनायाह- एकस्वभावत्वे तु वस्तुनोऽभ्युपगम्यमाने, कार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org