________________
खोपझटीकासहिता।
२८१ "विशेषात् ; एवमप्येकस्या अन्यथाकल्पनेऽतिप्रसङ्ग इति । तथावाचकस्यापि भावात् , कथञ्चित्प्रवृत्तिनिमित्तभेदात् , तथासंहारवादोपपत्तिः । शेषं चानभ्युपगमादेव न नः क्षतिमावहति, केवलग्रहणपुरस्सरसंहारवादासिद्धेः, नरसिंह-मेचकवद् वस्तुनो जात्यन्तरात्मकत्वाभ्युपगमात् । एकस्वभावत्वे तु कार्यद्वयायोगेन धी-ध्वन्यभाव एव, हेत्वभेदे फलभेदासिद्धेः॥
यच्चोक्तं मूलपूर्वपक्षे, 'सर्ववस्तुशबलवादिनः' इत्यादि, यावत् 'तत्सिद्धौ वा तत एव तत्स्वभावभेदात् तदेकरूपतैव' इति; एतत् प्राग् व्याख्यातमेवेति न व्याख्यायते । अत्र दूषणमभिधातुमाहएतदप्ययुक्तम् । कथमित्याह- सर्ववस्तुशबलभावेऽपि सति, तथाक्षयोपशमवत्प्रमातुश्चित्रक्षयोपशमवत इत्यर्थः, गुणप्रधानभावेन वक्ष्यमाणोदाहरणगतेन, कचिद् वस्तुनि, अन्यासंसृष्टाकाराया इव बुद्धेः सिद्धरुपलब्धेः । इहैव भावार्थमाह-संनिकृष्ट-विप्रकृष्टयोः प्रमात्रोः, उष्ट्र एव वस्तुनि, सदुष्ट्रादिबुद्धिभेददर्शनात् । कथमेतदेवमित्याहविप्रकष्टो हि तत्र उष्ट्रे, प्रमाता तथाप्रतिपत्तिवीर्यतः सामान्यप्रतिपत्तिसामर्थेन, अप्रधानगुणभूतमपि भावेन परमार्थन, 'सन्मात्रमवैति' इति योगः । किंविशिष्टमित्याह- गुणभूतोष्ट्रत्वादिविशेष गुणभूतोऽप्रधानभूत उष्ट्रत्वादिविशेषो यस्मिंस्तत् तथा । एतदेव विशिष्यते- पटुप्रतीत्यपेक्षया निश्चयप्रतीत्यपेक्षयाऽऽपादितः प्रधानभावो यस्य तत्तथा । एवंभूतं सन्मात्रमवैति । निदर्शनमाह- यथा विशिष्टवस्त्रादौ पटादिरूपे, रक्तादि 'रक्तं किमपि' इति । संनिकृष्टः पुनः प्रमाता, अन्यथा प्रतिपत्तिबलेन तथाप्रतिपत्तिवीर्यापेक्षया विशेषप्रतिपत्तिसामर्थ्य नेत्यर्थः, उक्तरूपमपि तत्त्वतोऽप्रधानगुणभूतमपि, परमार्थेन 'उष्ट्रवादि' इति योगः, 'अवैति' इति क्रियानुवृत्तिः । एतदेव विशेष्यते- तथाग्रहणगुणेन विशेषग्रहणोपकारेणोपनतो मुख्यभावो यस्य तत् तथा । एतदेव विशेष्यत- उपसर्जनीकृतं सत्तासमानरूपं यस्मिंस्तत् तथोष्ट्रत्वाद्यवैति । रक्तादाविव विशिष्टं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org