________________
२८०
अनेकान्तजयपताका
रूपादिभावः । कुत इत्याह धूमादावन्यथेक्षणाद् भिन्नदेशरूपादिभावेक्षणात् ॥ १५ ॥ एवमित्यादि एवं सन्न्यायतः सिद्धे सति, उभयेऽपि दध्युष्ट्रोभये, उभयोद्भवे दध्युष्ट्रोभयोद्भवे, उभयमुभयः जननस्वभावमिति तुल्यात् स्वभावद्वयादुपजायमानमुभयमप्येतत् तुल्यमेव भवतीति, एवं चोदनेऽन्यतरस्येह 'दधि खाद', प्रवृत्ती नियमः कुतः ?, उभयोस्तदुभयस्वभावजन्यत्वेन तुल्यत्वादिति ।।१६।। अत एवाह- उभयोरित्यादि उभयोर्दध्युष्ट्रयोः, तुल्यरूपत्वात् तदुभयजनकत्वेन, निरंशत्वाच्च सर्वथैकस्वभावत्वेन, एवं विशेषा, संभवात् , कार्यदध्युष्ट्रयोरिति सामर्थ्यम् , ध्वान्तमवधूय विचिन्त्यतां 'प्रवृत्तिनियमः कुतः ?' इत्येतत् ।।१७।। एवमित्यादि एवमुक्तनीत्या, सर्वत्र विषमोदकादौ, संयोज्यः प्रवृत्त्यनियमो बुधैः पण्डितैः प्रक्रा; न्तार्थानुसारेण । दध्युष्ट्रयोः परेणोपन्यस्तत्वाल्लेशतस्तु निदर्शितः प्रवृत्त्यनियमः ॥ १८ ॥ इत्यादि ॥ . . यच्चोक्तम्- 'सर्ववस्तुशबलवादिनः क्वचिदन्यासंसृष्टाकारबुद्धयसिद्धेः, तथावाचकाभावात् संहारवादानुपपत्तिः, तत्सिद्धौ वा तत एव तत्स्वभावभेदात् तदेकरूपतैव' इति । एतदप्ययुक्तम् , सर्ववस्तुशबलभावेऽपि तथाक्षयोपशमवत्पमातुर्गुणप्रधानभावेन क्वचिदन्यासंसृष्टाकाराया बुद्धः सिद्धेः, सन्निकृष्ट-विप्रकृष्टयोः प्रमात्रोरुष्ट्र एव सदुष्ट्रादिबुद्धिभेददर्शनात् । विप्रकृष्टो हि तत्र प्रमाता तथाप्रतिपत्तिवीर्यतोऽप्रधानगुणभूतमपि भावेन गुणभूतोष्ट्रत्वादिविशेषं पटुपतीत्यपेक्षापादितप्रधानभावं सन्मात्रमवैति, यथा विशिष्टवस्त्रादौ रक्तादिः सन्निकृष्टस्त्वन्यथा प्रतिपत्तिबलेनोक्तरूपमपि तत्वतस्तथाग्रहणगुणोपनतमुख्यभावमुपसर्जनीकृतसत्तासमानरूपमुष्ट्रत्वादि, रक्तादाविव विशिष्टं वस्त्रादीति । तथाक्षयोपशमवत्वं च प्रमातुः प्रभास्वरस्य प्रकृत्या बोधह्रासद्धयुपलब्धेः, आगन्तुककर्ममलभावेन द्रव्याद्यवाप्तितोऽविरुद्धमेव । न चैतद् बुद्धिद्वयमपि न तन्निमितम् , तद्भावभाविका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org