________________
स्वोपज्ञटीकासहिता।
२७९
इत्येवम् , नं पुनः 'उष्ट्रं धावति' ॥८॥ अत इत्यादि । अतोऽतिशयो विशेषपरिणामः, तत्र दनि, येन कारणेन, भेदेन प्रवर्तते तथा चोदितः पुरुषः । न चैवमपि परेष्टसिद्धिरित्याह- स दध्येवेत्यदोन एतदेकान्तेन । कुत इत्याह-सवव्यत्वानुवेधतः कारणात् , केवलस्य दधिपर्यायस्याभावादित्यर्थः ॥ ९ ॥ तत इत्यादि ततः सोऽस्त्यतिशयो दनि, न चान्यत्रोष्ट्रेऽसौ, तन्नियतत्वात् । न चाप्यनुभयं परं तत्त्वम् , उक्तवत् समाना-ऽसमानोभयपरिणामरूपत्वेन । एवं तत्त्वव्यवस्थायां सत्याम, अवयं पापं, नास्ति किञ्चन ॥ १० ॥ परपक्षे त्वयं दोष एवेत्याह- सर्वथेत्यादि सर्वथा क्षणिकत्वे च निरन्वयक्षणिक इत्यर्थः; प्रतीत्योत्पादवादिनः परस्य, सर्वस्य दध्यादेः, 'वस्तुनः' इति प्रक्रमः, सर्वकार्यत्वप्राप्त्योष्ट्रादिकार्यत्वप्राप्त्या हेतुभूतया, अभेदो दूषणमेतत् , भवेदपि ॥ ११ ॥ एतदेवाह- क्षीरोष्ट्रानन्तरं भूतेः उत्पत्तेः, न्याया. जगति सदा तद्भावेन दध्यु-ष्ट्रयोः, यतो द्वयोरपीह प्रक्रमे, द्वयकार्यत्वयोगेन हेतुना, नियमात् तुल्यरूपता, परनीत्या द्वयोरपि तद्वयादुत्पत्तेरित्यर्थः ।।१२।। न चेदित्यादि न चेत् तुल्यरूपता, तत्तत्स्वभावत्वात्तयोर्दध्युष्ट्रजननस्वभावत्वात् । एतदाशङ्क्याह- न तत् तत्स्वभावत्वम् , ताभ्यां दध्युष्ट्राभ्यां, पृथग् मतमथान्तरभूतमिष्टम् । किं तार्ह ?। दध्युष्ट्रावेव द्वावपि तत्स्वभावत्वम् । तच्च तत्स्वभावत्वं च तत्स्वरूपमेव, अविशिष्टं तुल्यं सर्वेषामसतां खरविषाणादीनाम् , इति भाव्यतामेतत् । ततश्च तयोर्दध्युष्ट्रजननस्वभावत्वादित्येतदेवासत् किन्तु तयोरसज्जननस्वभावत्वादिति न्याय्यमिति ॥ १३ ॥ तथा चाहविशिष्टत्यादि विशिष्टतत्स्वभावत्वकल्पना च दध्युष्ट्रजननस्वभाव. त्वकल्पना च, न युज्यते । केन हेतुनेत्याह- विशिष्टोपाध्यभावेन सदा सर्वथा दध्याद्यभावनेत्यर्थः, भावे चास्य विशिष्टस्योपाधेः, किमि. त्याह- अन्वयो ध्रुव:भाविकार्यार्थाशून्यतया, तस्यैव तथोपाधित्वयोगादिति ॥ १४ ॥ अभिन्नेत्यादि अभिन्नदेश-रूपादिभावेऽपि दध्यादेः, एषोऽन्वयः, अनिवारितः परस्य । न चैकान्तिक एवायमभिन्नदेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org