________________
८४
अनेकान्तजयपताका
कुत इत्याह-अकिश्चित्करत्वात् कारणात् । एवमभ्युपगमे दोषमाहअकिश्चित्करत्वेऽपि सति, सहकारित्वेऽभ्युपगम्यमाने। किमित्याहअतिप्रसङ्गः । एनमुपदर्शयन्नाह-तथाहीत्यादि, तथाहि यदि कञ्चन विशेषमकुर्वन्नपि स पदार्थ आलोकादिः, तस्य वस्तुनः, सहकार्यभ्युपगम्यते । ततः किमित्याह- सर्वभावानामेव तत्सहकारित्वप्रसङ्गः। कुत इत्याह- तद्विशेषाऽकरणेनाविशेषात् तस्य वस्तुनो विशेषाकरणेनाऽविशेषात् सर्वभावानाम् , इत्येवम् , व्यर्था सहकारिकल्पना । अथेत्यादि।अथोच्यते परेण, एवंभूत एव तस्य वस्तुनः स्वभावो धर्मः, येन विशेषाकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्याऽऽलोकादि, कार्य जनयति विज्ञानादिकमिति । एतदाशङ्क्याह- एतदपि मनोरथमात्रम् । कुत इत्याह-विकल्पानुपपत्तेः । एनामेवाह-तद्धीत्यादिना तद् वस्तु, यस्माद् यदाऽभीष्टसहकारिसन्निधौ कार्य जनयति विज्ञानादि, तदाऽस्य वस्तुनः, अनन्तरादितसहकार्यपेक्षालक्षणोऽकिञ्चित्करसहकार्यपेक्षालक्षणः, स्वभावो धर्मः, निवर्तते न वेति वाच्यम् ? । उभ यथापि दोषमाह- यदि निवर्तते अधिकृतस्वभावः । ततः किमित्याहअनित्यत्वप्रसङ्गः।कुत इत्याह-स्वभावनिवृत्तौ सत्यां, स्वभाविनोऽपि धर्मिणः, तद्व्यतिरेकेण स्वभावाभेदेन हेतुना, तद्वदेव स्वभाववदेव, निवृत्तेः कारणात् । अथ न निवर्तते स स्वभावः । अत्राह- कार्याजननप्रसङ्गः। कथमित्याह- तत्स्वभावानिवृत्तेः अकिञ्चित्करसहकार्यपेक्षालक्षणस्वभावानिवृत्तेः, पूर्ववदिति दृष्टान्तः । एतदेव भावयतितथाहीत्यादिना । तथाहि य एव तस्य वस्तुनः, कार्याजननकाले स्वभावः, जननकालेऽपि स एव सर्वदा स्वस्वभावानिवृत्तेः, इत्येवम् , कथं जनयति कार्य तदा, कथं वा न पूर्वमपि जनयति स्वभावाभेदादिति भावः, इत्येवम् , चिन्त्यम् ।।
तेन सह जननस्वभावत्वात् तद्भावे जनयति, तदभावाच्च म पूर्वमपीति चेत् । न, अविचारितरमणीयत्वात् , तेन सह तज्जननस्वभावत्वस्यापि नित्यत्वे.सति सदा तज्जननप्रसङ्गात् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org