________________
-खोपशटीकासहिता।
मामैव ततः को दोष इत्याह- अननुस्मरन्न योजयति अत्रापि शब्दविशेषानुस्मरणं स्मृतियोजनायाः कारणं, तदभावात् कार्याभावः । अत्रापि को दोष इति चेदाह- अयोजयन प्रत्येति योजनं ह्यर्थप्रतीतेः कारणमित्यत्रापि कारणानुपलब्धिरेवेति । तस्मादायातमान्ध्यमशेषस्य जगतः, न चेष्यते । तस्मान्नेन्द्रियज्ञाने शब्दकल्पना संभवतीति । अथापि स्याद् नार्थदर्शनात् स्मृतिः, किं तर्हि ?, योग्यदेशावस्थितादेवार्थात् स्मृतिरित्याह- आभिपतन्नेवेत्यादि । अभिपतन्नभिमुखीभवन् । कोऽसावित्याह- अर्थो रूपादिको विषयः । किं करोति?, • प्रबोधयति कार्यनिर्वर्तनं प्रत्यनुकूलयति । कं प्रबोधयति ?, आन्तरं संस्कारं शब्दस्मृतिवासनाख्यं, तेन अर्थाभिपातमात्रेण, सा स्मृतिः, तेन वा कारणेन, स्मृतिः, नार्थदर्शनादिति चेत् , तथा च नान्ध्यं जगतः, -विकल्पकत्वं चेन्द्रियज्ञानस्योपपन्नमिति मन्यते । अर्थाभिपातस्य स्मृतिजनकत्वं निराकुर्वन्नाह-न, तत्संबन्धस्येत्यादि । यदेतदुक्तम्-अभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कारमिति, तन्न । कुत इत्याह-तत्संबन्धस्य तयोः शब्दार्थयोः संबन्धस्तत्संबन्धस्तस्य,अस्वाभाविकत्वात् पौरुषेयत्वादित्यर्थः। कथमवसेयमित्याह-समयादर्शने संकेतस्याग्रहणे सति,अभावात् स्मृतिसंस्कारप्रबोधस्य, अर्थप्रतीतेर्वेति वाक्यशेषः । एतदुक्तं भवतिययोः स्वाभाविकः संबन्धो न तयोः समयं प्रति काचिदपेक्षा, यथा चक्षुरूपयोः, विपर्ययस्त्वत्र, इति नाकृत्रिमत्वं संबन्धस्येति। तत्रैतत् स्यात् समयादुत्तरकालं स्वाभाविकः शब्दार्थसंवन्धो न पूर्वम् , अतः कृतसमयस्याभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कारमित्याह- पुरुषेच्छातः सकाशात् , अर्थानां स्वभावापरावृत्तेः पूर्वस्वभावपरित्यागेन विशिष्ट स्वभावान्तरानुत्पत्तेः कारणात् , न समयकालोत्पत्तिः- न समयकाले स्वाभाविकत्वेन शब्दार्थसंबन्धस्य प्रादुर्भाव इत्यर्थः । दोषान्तराभिधिसयाऽभ्युपगम्यापि स्वभावान्तरपरावृत्तिमाह-वभावस्य परावृत्तौ च सत्याम् , अन्यस्यासमयदर्शिनोऽपि स्यात् स्मृतिसंस्कारप्रबोधः, अर्थप्रतीतिति शेषः, न केवलं समयदार्शन इत्यपिशब्दार्थः । कस्मादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org