________________
१२४
अनेकान्तजयपताकात्याह- तस्य तादात्म्यात्। स स्मृतिसंस्कारप्रबोधकः, अर्थप्रतीतिहेतुको 'वा आत्मा स्वभावोऽस्येति तदात्मा, तदात्मनो भावस्तादात्म्यं, ब्राह्यणादेराकृतिगणत्वात् व्यञ् । अथोच्यते- समयदर्शिनं प्रति स्वभावः, न पुनरदृष्टसमयं प्रति,इत्यत आह- न हीत्यादि।न हि पुरुषं पुरुषं प्रति, अर्थानां, आत्मभेदः स्वभावभेदः, भवति । कुत इत्याह- नैरात्म्यप्रसङ्गात् । अयमभिप्रायः- पुरुषेच्छानामानन्त्यात्, तदनुवर्तिनश्च यद्यर्थाः स्युस्तदा तेषां नैःस्वभाव्यमेव स्यात्, एकस्यानेकस्वभावाभावात्। स्याद् मतम्- भवतु सामयिकस्वभावस्याभावः, अन्योऽपि तद्व्यतिरितो वस्तुसत्स्वभावोऽस्यास्त्येव, अतो नैरात्म्यप्रसङ्गो न भविष्यतीत्याहआत्मस्थितेरभावादिति । उपलब्धिलक्षणप्राप्तस्य तद्व्यतिरेकेणान्यस्य स्वभावस्यानुपलम्भादित्यभिप्रायः । अथवा नन्वेवं सति बहुतरस्वभावसिद्धिरेवः तत्किमुच्यते-नैरात्म्यप्रसङ्गात्?,इत्याह-आत्मस्थितेरभावात् । पुरुषाणां स्वाभिप्रायवशेनैकत्र विरुद्धस्याऽपि स्वभावस्याऽभ्युपगमसंभवात् ; न चैकस्य विरुद्धानेकस्वभावो युक्त इति मन्यते । तदेवं स्मृत्यसंभवेन निर्विकल्पतां प्रतिपाद्योपसंहरन्नाह- तस्मादित्यादि। यस्मादेवमनन्तरोक्तेन प्रकारेण शब्दविशेषस्मृतिर्न संभवति, तस्मादयं प्रतिपत्ता , अशब्दसंयोजनमेवार्थ पश्यति , अविद्यमानं शब्दसंयोजन यस्यार्थस्येति विग्रहः । कुत इत्याह- दर्शनात् । अयमस्याओं यस्मादयं प्रतिपत्ताऽर्थमुपलभते, तस्मादशब्दसंयोजनमेवार्थ पश्यतीति निश्चीयते। . किञ्च, विकल्पात्मकत्वेऽस्य निश्चयात्मकमिदमित्यनेकप्रमाणवादहानिः, तेनैव वस्तुनो निश्चयात्, नित्यत्वादी भ्रान्त्यनुपपत्तेः । अनेकधर्मके वस्तुन्यन्यतरधर्मनिश्चयात् तदन्यनिश्चयाय प्रमाणान्तरसाफल्यमिति चेत् । न, एकधर्मविशिष्टस्यापि निश्वये सर्वधर्मवत्तया निश्चयात्, प्रमाणान्तरस्य निश्चितमेव विषयीकुर्वतः स्मृतिरूपानतिक्रमात् , एकधर्मद्वारेणापि तद्वतो निश्चयात्मना प्रत्यक्षेण विषयीकरणे सकलधर्मोपकारकशक्त्यभिन्नात्मनो निश्चयात् । न ह्यन्य एवान्योपकारको नाम । ततो यदेवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org