________________
स्वोपज्ञटीकासहिता 1.
,
षः, तमपश्यन् स्वभावभेदं, ऐक्यं व्यवस्यति तयोः सविकल्पाविकरूपयोः, न तु तथा तत् न पुनस्तदैक्यमेव । कुत इत्याह- अन्यत्र जा. तिभेदें, अनयोः सविकल्पाविकल्पयोः, यौगपद्येऽपि सति, भेददर्शनात् । एतदेवाह - अतीताद्यर्थगत विकल्पेनापि प्रमात्रा, इन्द्रियज्ञानत इन्द्रि यज्ञानेन, रूपादिग्रहणसिद्धेः । कस्येत्याह- अन्यस्याश्रुतस्वात् तस्यैव प्रमातुः । न चेत्यादि । न च स विकल्पोऽतीताद्यर्थगतः, रूपाद्येव गृह्णाति 'वर्तमानिकम्' इति प्रक्रमः, इत्येवं शक्यं कल्पयितुम् । कुतो न शक्यमित्याह - तस्येत्यादि । तस्यातीताद्यर्थगतविकल्पस्य, अतीताद्यभिधायकत्वत्यागतोऽतीतादिवाचकशब्दादित्यागतः। वर्तमानार्थयोजनेनेति । वर्तमानोऽर्थोऽभिधेयो यस्य 'अभिधायकस्य' इति प्रक्रमः, स वर्तमानार्थस्तद्योजनेन प्रवृत्तिप्राप्तेः कारणात् । नापीत्यादिना । नापि वर्तमानार्थाभिधानेन संसृज्यते तच्छीलश्चेति विग्रहः, तदा त स्मिन्नेव काले, अपरों विकल्पः समस्ति विद्यते । कुत इत्याहद्वयोर्विकल्पयोः समं युगपत्, अप्रवृत्तेः कारणात् । अप्रवृत्तिश्चाविगानेनाsविप्रतिपत्त्या, तथा तेन समकालभावेनाऽनुभवाभावात् । अत इत्यादि । अतः स्थितमेतत् प्रत्युत्पन्नविषयग्रहणकाले दृश्यमानानामाऽग्रहः स्पष्ट एव । यदि नामैवं ततः किमित्याह - तन्नामग्रहणेन संभूता तन्नामग्रहणसंभूता, एवंभूता च कल्पना । ततः किमित्याह - तन्नामग्रहाभावे कल्पनाभाव इति कृत्वा, सिद्धमविकल्पकमिन्द्रियज्ञानम् । अत इन्द्रियज्ञानात्, अन्य एव च विकल्प इत्येवं, न कचित् सजातीयादौ, अनयोर्दर्शन विकल्पयोः, ऐक्य मेकभाव:, न्यायानुपपत्तेः, इयं वोक्तव । सर्वगर्भ त्वाह- भिन्नजातीयत्वात् । सामान्येनैव दर्शनविकल्प्रयोरिति 'इतश्चैतदेवमङ्गीकर्तव्यम्' इति शेषः । अन्यथैवमनभ्युपगमे, स्वाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति प्राप्तं, व्यवसीयन्ते प्रतीयन्त इत्यर्थः । कीदृशा इत्याह- स्वाभिधानेत्यादि । खाभिधानमेव विशेषणं व्यवच्छेदकत्वात् तस्मिन्नपेक्षा येषामर्थानामिति विग्रहः ॥
"
१६
Jain Education International
For Private & Personal Use Only
१२१
www.jainelibrary.org