________________
स्वोपज्ञटीकासहिता। निबन्धनोपपत्तेजनयति विज्ञानादिकमित्यवगम्यते । नित्यानित्यत्वं च वस्तुनो द्रव्यपर्यायोभयरूपत्वात् , अनुवृत्तव्यावृत्ताकारसंवेदनग्राह्यत्वात् प्रत्यक्षसिद्धमेवेति, तथाहि- मृत्पिण्डशिवकस्थासकघटकपालादिवविशेषेण सर्वत्राऽनुवृत्तो मृदन्वयः संवेघते, प्रतिभेदं च पर्यायव्यावृत्तिः, तथा च न यथाप्रतिभासं मृपिण्डादिसंवेदनम् , तथाप्रतिभासमेव शिवकादिषु, आकारभेदानुभवात् । न च यथाप्रतिभासभेदं तद्विजातीयेषूदकदहनपवनादिषु, तथाप्रतिभासभेदमेव शिवकादिषु, मृदन्वयानुभवात् । न चास्य स्वसंवेद्यस्यापि संवेदनस्यापह्नवः कर्तुं युज्यते, प्रतीतिविरोधात् । न च निराकारमेव संवेदनम् , अर्थान्तरस्येव वतो विवक्षितार्थापरिच्छेदात् ; न ह्याकारानुभवव्यतिरकेणापरोऽर्थपरिच्छेद इति, अतिप्रसङ्गात्, सर्वस्य सर्वार्थपरिच्छेत्तृत्वापत्तेश्च ।। . स्वपक्षमधिकृत्याह-नित्यानित्यं पुनः वस्तु, कथञ्चिदवस्थितत्वात् तत्तथाभवनेन, तथा अनेकस्वभावत्वाद् निमित्तोपादानहेतुस्वभावभेदेन, निबन्धनोपपत्तेस्तत्तत्स्वभावभावेन, जनयति विज्ञानादिकं कार्यम् , आदिशब्दात् स्वोपादानकार्यग्रहः, इत्येवम् , अवगम्यते ज्ञायते। एवं ज्ञानोपाय उक्तः, अधुना नित्यानित्यत्वमाह- नित्यानित्यत्वं च वस्तुनो द्रव्यपर्यायोभयरूपत्वात् कारणात्, द्रव्यपर्यायोभयरूपत्वं च अनुवृत्तव्यावृत्ताकारसंवेदनग्राह्यत्वात् । किमित्याहप्रत्यक्षसिद्धमेवेति । एतदेव भावयति-तथाहीत्यादिना तथाहीयुपप्रदर्शने, मृत्पिण्डशिवकस्थासकघटकपालादिषु भेदेषु, अविशेषेण सामान्येन, सर्वत्राऽनुवृत्तो मृदन्वयः संवेद्यते तथानुभवात् । प्रतिभेदं च भेदं भेदं प्रति च, मृत्पिण्डादिपर्यायव्यावृत्तिः, संवेद्यत इति वर्तते । एतदावनायैवाह- तथा चेत्यादि । तथा च न यथाप्रतिभासं न यथाकारं, मृत्पिण्डादिसंवेदनम् , तथाप्रतिभासमेव शिवकादिषु, संवेदनमिति वर्तते । कुतो नेत्याह- आकारभेदानुभवात् कारणात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org