________________
खोपज्ञटीकासहिता।
२२७ साधारणरूपायोग इत्यर्थः, बाधक इति चेत् । एतदाशङ्कयाह-न, विकल्पानुपपत्तेः । अनुपपत्तिश्च- युक्तिर्हि प्रमाणमप्रमाणं वा स्यात् ? । किश्चातः ?, उभयथापि दोष इत्याह-प्रमाणं चेत् । न प्रत्यक्षादेरन्यदिति, अत्र चोक्तो दोषः, प्रत्यक्षस्य स्खलक्षणविषयत्वेन तत्राप्रवृत्तरित्यादिः । अप्रमाणत्वे तु युक्तः, किमित्याह- तद्बाधकत्वानुपपत्तिः तथाविधग्राह्यबाधकत्वानुपपत्तिः । कुत इत्याहअतिप्रसङ्गात् स्वलक्षणस्यापि युक्तिबाधितत्वोपपत्तेः, अविषयेऽपीयं प्रवर्तत इति भावना । एवं विकल्पज्ञानस्यापि कस्यचित् प्रामाण्यमङ्गीकर्तव्यमित्यैदंपर्यम् ।
अखिलविकल्पज्ञानभ्रान्ततावादिनश्च तत्सामोत्थं वचनमपि तागेवेति सुस्थिता तत्तत्त्वनीतिः । न हि भ्रान्तमात्मनो भ्रान्ततामवैति, द्विचन्द्रज्ञानादावात्मनि भ्रान्तताधिगमव्यपोहेन चन्द्रद्रयाद्यधिगतिदर्शनात्, तत्स्थामोपजातवचसोऽपि स्वभ्रान्तताभिधानपरित्यागेन चन्द्रद्वयाद्यभिधानाद , इति सकलमेव शास्त्रज्ञानाभिधानं भ्रान्तिमात्रम्, इति कथं ततस्तत्त्वनिश्चय इति चिन्त्यम?, तथाहि-अस्य नित्या-ऽऽत्मादिविकल्पवत् कृतकत्वादिलिङ्गद्वारायाता अनित्या-ऽनात्मादिविकल्पा अपि भ्रान्ता एव, इति कथं तेभ्यस्तनिश्चितिः ? । निश्चितौ वा कथं न नित्यादावपि, तद्विकल्पानामपि ततो भावात् ? ॥
इत्थमनभ्युपगमे दोषमाह-अखिलेत्यादि । अखिलविकल्पज्ञानभ्रान्ततावादिनश्च, किमित्याह-- तत्सामोत्थं निःशेषविकल्पज्ञानभ्रान्ततासामोत्थं वचनमपि तादृगेव भ्रान्तमेव, इति-एवं सुस्थिता तत्तत्त्वनीतिस्ताभ्यां भ्रान्तविकल्पज्ञान-वचनाभ्यां तत्त्वनीतिरित्युपहसति, न सुस्थितेत्यर्थः । कथमित्याह-- न हीत्यादि न यस्माद् भ्रान्तं ज्ञानमिति प्रक्रमः, आत्मनो भ्रान्ततामवैति । कुत इत्याह- द्विचन्द्रज्ञानादौ आदिशब्दाद् मायाजलज्ञानग्रहः, आत्मनि खरूपे भ्रान्तताधिगमव्यपोहेन चन्द्रद्वयाधिगतिदर्शनात्, आदि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org