________________
अनेकान्तजयपताका
वस्तुनः । तथाहीत्यादि । तथाहि न सत् सदन्तरात्मकमित्येवं, सचेतसो वक्तुं युज्यते, प्राप्नोति चैतदस्मिन् पक्षेऽसतोऽपि सदन्तरत्वादिति । अत्राह-- एतदप्ययुक्तम् । कुत इत्याह- भगवदर्हन्मतापरिज्ञानात् । कथमपरिज्ञानमित्याह- भगवदर्हन्मतं हि यस्मात्, वस्त्वेवात्मघटादि, सदसद्रूपतयोभयात्मकं वर्त्तते, न सत्त्वाननुविद्धमसत्त्वं नाम, तत्र वस्तुनि, यदपेक्षयतदुभयरूपं वस्त्विति । उक्तं च वादिमुख्येन मलवादिना सम्मती -- स्वपरेत्यादि । स्वपरस् स्वयोर्यथायोगं ये व्युदासोपादाने ताभ्यामापाद्यते व्यवहारविषयतयेत्येवं भूतमेव, वस्तुनो वस्तुत्वम्, अतो यद्यपि सन्न भवतीत्यसत् प्रसज्यप्रतिषेधरूपम्, तथापि परद्रव्यादिरूपेण सतः प्रतिषेधात् तस्य च परद्रव्यादिरूपेण सतः, तत्र विवक्षितसत्त्वे, असत्त्वात्, तत्स्वरूपसत्त्वानुवेधात् तत्स्वरूपस्य तत्प्रतिषेधायाताऽसत्त्वरूपस्य सत्त्वानुवेधाद्विवक्षित सत्त्वानुवेधात् कारणात्, न निरूपाख्यमेव तुच्छमेव तदसत्त्वम् । इत्येवं, प्रसज्यप्रतिषेधपक्षोदितदोषाभावः ॥
४८
"
पर्युदासप्रतिषेधपक्षदोषस्त्वत्र व्यतिकरेऽनभ्युपगमादेव न नः क्षतिमावहति, एतदुक्तं भवति - वस्त्वेव तत् सदसदात्मकं, न तत्र स्वरूपसत्त्वपृथग्भूतं पररूपासच्त्वम्, न च पररूपासच्त्वासंपृक्तं स्वरूपसश्वम् । न चानयोरेकत्वमेव, अविगानतः सम्य गुभयोपलब्धेः । न च नानात्वमेव, तद्व्यवस्थायोगात् तथानुपलब्धेः । इत्यन्योन्यानुविद्धं भेदाभेदवृत्ति तत्स्वभावं विशि ष्टमुभयमेव तत्, अन्यथा वस्तूनां वैशिष्ट्यानुपपत्तिरिति । एतेन 'अबादेर्नियतदेशस्वरूपव्यतिरेकेण सर्वत्रासच्त्वात्, तस्य च पार्थिवद्रव्यसत्त्वेनानुवेधाभ्युपगमात्, तद्व्याप्तेर्घटस्य प्रायो विभुत्वप्रसङ्गः' इत्येतदपि कुशाग्रीयबुद्धिपरिचोदितं परिहृतमवगन्तव्यम् । वस्त्वेव तत्सदसदात्मकमित्यादेर्ग्रन्थस्यान्यथा भावार्थायोगात् । अथवा विश्वजगदन्तर्गतानां सकलवस्तुसत्त्वानामेव तदसत्त्वानुवेधः, अन्यथा स्वस्वरूपवत्तेषु तत्सत्त्वापत्तिः न च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org