________________
स्वोपज्ञटीकासहिता।
१०१ एकान्तनित्यत्वानुपपत्तेः । तथा चोक्तमिति ज्ञापकमाह- भावेष्वेकान्तनित्येषु अप्रच्युतानुत्पन्नस्थिरैकस्वभावेषु, नान्वयव्यतिरेकवत् संवेदनं भवेत् । कुत इत्याह-धर्मभेदाभावात् पर्यायभेदाभावात, इह स्फुटमित्यादि । तथैकान्तनश्वरेष्वपि, भावेष्विति प्रक्रमः । नाधिकृतसंवेदनभावो युज्यते अधिकृतमन्वयव्यतिरेकवत् । कुतो न युज्यत इत्याहअनुवृत्ताकारनिबन्धनस्य द्रव्यान्वयस्याऽभावात् ॥ - न च निरन्वयनश्वरवादिनस्ततस्तत्सदृशान्यप्रभवः संभवति, सर्वथा हेतुनिवृत्तावहेतुकत्वप्रसङ्गात् , अन्यथाऽन्वयसिद्धेरिति ।
उक्तं च"सर्वथा कारणोच्छेदाद् भवेत् कार्यमहेतुकम् ।
तच्छक्त्यवयवाधारखभावानामनन्वयात्"॥१॥इत्यादि। न चास्य संवेदनस्य बाधकः प्रत्ययोऽस्ति, कदाचिदप्यनुपलब्धेः । न च योगिप्रत्ययो बाधक इति युज्यते वक्तुम , प्रमाणाभावात् ।
उक्तं च"नित्यं योगी विजानाति क्षणिक नेति का प्रमा?।
देशनाया विनेयानुगुण्येनापि प्रवृत्तितः ॥१॥इत्यादि । तस्मादन्वयाविनाभूतो व्यतिरेकः, व्यतिरेकाविनाभूतश्चान्वय इति वस्तुस्वभावः। तथा चोक्तम्"नान्वयस्तद् विभेदत्वाद् न भेदोऽन्क्यवृत्तितः ।
मृद्भेदद्वयसंसर्गवृत्ति जात्यन्तरं हि तत्" ॥१॥ तस्मात् तद् यत एव नित्यम् , अत एवानित्यं द्रव्यात्मना नित्यत्वात्, तस्य चाभ्यन्तरीकृतपर्यायत्वात् यत एव चानित्यम्, अत एव नित्यं पर्यायात्मनाऽनित्यत्वात्, तस्य चाभ्यन्तरीकृतदव्यत्वात् । उभयरूपस्य चानुभवसिद्धत्वात् , एकान्तभिन्नस्य लोभयस्याभावात् , तथानुपलब्धेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org