________________
स्वोपज्ञटीकासहिता।
. १६३ " मयूरचन्द्रकाकारं नीललोहितसंनिभम् ।
संपश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः ॥ १॥" इत्यादीति चेत् । एतदाशङ्कयाह- न, तस्य मण्डलादिदर्शनस्य, तन्निमित्तत्वेऽपि प्रदीपनिमित्तत्वेऽपि, भ्रान्तत्वात् कारणात् । भ्रान्तत्वं चान्तरदोषाद् नयनरोगाद् वैगुण्यमान्तरदोषवैगुण्यं तेन प्रधा. नहेतुना, उत्पत्तेः । एतच्चैवमेवेति द्रढयन्नाह- तद्विकलेन आन्तरदोपविकलेन, द्रष्ट्रेति सामर्थ्यात् , अदर्शनाद् दीपे सत्यपि दीपमण्डलादेः, इयान्तरदोषवैगुण्यस्य प्रधानता। मा भूदिन्द्रनीलादावप्येवमिति व्यतिरेकमाह- इन्द्रनीलादिधर्माणां तु अनेकदीपावभासिताना, तदन्यवेदिनापि धर्मान्तरवेदिनापि प्रमात्रा, वेदनात् । एतदेवाहसूक्ष्मधर्मद्रष्ट्राऽपि प्रमात्रा, स्थूराणां ग्रहणात् । ग्रहणं च तथाप्रतीतेः, सत्संस्थानादिधर्मग्रहणसंगतैव तत्कान्त्यादिप्रतीतिरिति भावनीयम् । न चैवं दीपादिद्रष्ट्रा पुरुषण, अविशेषत एव तद् दीपमण्डलादि गृह्यते । इति दोषविजृम्भितमेतद् दीपमण्डलादिदर्शनमिति ।। - दोषादसदर्शनसिद्धः सर्वधर्मदर्शनमेव दोषजमस्त्विति चेत् । अदोषनं तर्हि कीहक् । निर्विकल्पेन निरंशवस्तुग्रहणम् । न, तत्राप्युक्तवत्तदाशङ्कानिवृत्तेः । एकस्यानेकस्वभावत्वविरोधात्, तस्यान्याय्यत्वात् तन्नित्तिरिति चेत् । किं तदेकमेकस्वभावम् ? । किमत्रोच्यते?, वस्तुस्वलक्षणमेव । न, तस्य स्थूराकारप्रतिभासिनोऽप्तत्त्वात् , अणूनां चाप्रतिभासनात् , समूहस्याद्रव्यसत्त्वात् , तेषामेव तत्त्वे तद्वदनुपलम्भात् , समुदायदृश्यस्वभावत्वेनैकस्वभावत्वप्रसङ्गात् , प्रत्येकमदृश्यस्वभावत्वात् , तत्तद्भदे तदनणुवप्रसङ्गात् समुदायदृश्यस्वभावतया; अन्यथा योगिभिरप्यदर्शनात् , तथापि तदणुत्वकल्पनेऽतिप्रसङ्गात् , अन्याणूनां समुदायादर्शनेऽपि तद्भावप्रसङ्गात् , तैस्तद्भेददर्शने चानेकस्वभावतापत्तेः, तेषामेवायोगिभिरन्यथा दर्शनात् , अन्यथाऽन्यतरविज्ञानस्याविषयत्वप्रसङ्गात् , दृष्टेष्टविरोधात , भिन्न संस्थानबुद्धयसिद्धेः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org