________________
स्वोपज्ञटीकासहिता। अत्राह-अस्त्येतदुभयविधं संवेदनम् , नाऽस्याऽपह्नुतिरास्थीयसे; किन्त्वेतदपास्तकल्पनानुबन्धेन संवेदनेनैकस्वभाव एवावबुद्ध बोध्ये तदनुभवसामर्थ्यसमुत्थापितं विकल्पद्वयम् , न पुनर्भावाभावात्मकवस्तुप्रभवम् , इति न सूक्ष्मधिय आस्थामनोरथं पूरयति; यतोऽभावस्य कृत्यक्रियासूपरतव्यापारतयाऽभावत्वम् , यद्यसावपि कार्यक्रियासु कक्षां बनीयात्, को भावादभावस्य भवता विशेषो दर्शितः स्यात् ? अतो व्युपरतेऽक्षव्यापारेऽर्थपरिच्छेदानुभवसंस्कारप्रसूतो नास्तिताविकल्पःस्वातन्त्र्यं परिहरतीति।। . अत्राह-अस्त्येतदुभयविधमुभयप्रकारम् , संवेदनम् , नाऽस्यापह्नतिरास्थीयतेऽस्माभिः, किन्त्वेतदुभयविधं संवेदनम् , अपास्तकल्पनानुबन्धेन निरस्तकल्पनासंबन्धेन, निर्विकल्पकेनेत्यर्थः, संवेदनेन विज्ञानेन, एकस्वभाव एव न नानास्वभावे, अवबुद्धे अवगते, बोये वस्तुनि, भूयस्तदनुभवसामर्थ्यसमुत्थापितं यथोदितानुभववीबैंजनितम् , विकल्कद्वयं घटोऽयं न पटादीत्येतदिह वर्तते, न पुनर्भावाभावात्मकवस्तुप्रभवं निर्विषयत्वाद् विकल्पानाम् , इत्येवम् , न सूक्ष्मधियो निपुणमतेः, आस्थामनोरथं पूरयति एतद्विकल्पद्वयम् । अत्रैव युक्तिमाह- यत इत्यादिना । यतो यस्मात् , अभावस्य कृत्यकियास्वर्थक्रियासु, उपरतव्यापारतया कारणेन, अभावत्वं नान्यथा। इत्थं चैतदङ्गीकर्तव्यमित्याह-- यद्यसावपि अभावः, कार्यक्रियास्वर्थक्रियासु, कक्षां बनीयात् यत्नं कुर्यात् , कस्तर्हि, भावात् सकाशात् , अभावस्य तुच्छस्य, भवता भावाभावात्मकवस्तुवादिना, विशेषो दर्शितः स्याद् न कश्चिदित्यर्थः। अतोऽस्मात् कारणात् , व्युपरतेऽक्षव्यापारे तदुत्तरकालमर्थपरिच्छेदानुभवसंस्कारप्रसूतो निर्विकल्पकसामोद्भूत इत्यर्थः, नास्तिताविकल्पः न पटादीत्यादिरूपः, स्वातन्त्र्यं परिहरतीति अभावाक्षसंबन्धाभावेन भावमात्रवस्त्वनुभवपरतन्त्र इत्यभिप्रायः । एष पूर्वपक्षः।
अत्रोच्यते- तदनुभवसामर्थ्यसमुत्थापितं विकल्पद्वयमिस्यनवद्यमेव, किन्तु न तवयनिमित्तस्वभावतामन्तरेणाऽस्माद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org