________________
६६
द्वयप्रसूतिः, हेत्वभेदेऽपि फलभेदाभ्युपगमेऽभ्युपगमविरोधात् । उपादानहेत्वभेदे सति स विरोधः, न च तत्सामर्थ्यमुपादानमस्य; अहेतुकं तर्ह्येतत् सौत्रान्तिकपक्षे, तदपरस्याभावात्, तस्यैव वासनादित्वात् । न च तत्त्वतस्तनी तावुपादानेतर हेत्वोर्भेदसिद्धिः, हेतुलक्षणाविशेषात्, विशिष्टलक्षणायोगाच्च ॥
अत्रोच्यते समाधिः, तदनुभवसामर्थ्यसमुत्थापितं विकल्पद्वयमित्यनवद्यमेव अपापमेव, किन्त्विदमवद्यम् - न तद्द्द्वयनिमित्तस्वभावतामन्तरेण नेति प्रतिषेधे, तश्च तद् द्वयं च तद्वयमधिकृत विकल्पद्वयं तस्य निमित्तस्वभावता कारणस्वभावता तद्व्यनिमित्तस्वभावता ताम्, अन्तरेण विना, अस्मादर्थपरिच्छेदानुभव संस्कारात्, द्वयप्रसूतिः द्वयमिति विकल्पद्वयम् । कुतो न प्रसूतिरित्याह- हेत्वभेदेऽपि सति, फलभेदाभ्युपगमे क्रियमाणे, अभ्युपगमविरोधात् “अयमेव हि भेदो भेदहेतुर्वा भावानां यदुत विरुद्धधर्माध्यासः कारणभेदश्च” इत्यभ्युपगमात् । उपादानहेत्वभेदे सति स विरोधोऽभ्युपगमविरोधः, न च तत्सामर्थ्यमर्थ - परिच्छेदानुभवसंस्कारलक्षणम्, उपादानमस्याधिकृतंविकल्पद्वयस्य, अतोऽयं न दोष इत्यभिप्रायः । एतदाशङ्क्याह- अहेतुकं तर्ह्येतत् विकल्पद्वयम् । कुत इत्याह- सौत्रान्तिकपक्षे बाह्यार्थवादिमते, तदपरस्य यथोदितसामर्थ्यातिरिक्तस्य, अभावात् कारणात् । वासनादि तदित्याशकापोहायाह — तस्यैव वासनादित्वात् न ह्यधिकृत सामर्थ्यातिरिक्तमन्यद् वासनादि, अनभ्युपगमात् । योगाचारपक्षे त्वालयमधिकृत्योपरिष्टाद् वक्ष्यामः । न चेत्यादि । न च तत्त्वतस्तन्नीतौ सामान्येनैव, उपादानेतरहेत्वोर्नाममात्रकल्पितयोः, भेदसिद्धिः । कुत इत्याह- हेतुलक्षणाविशेषात् सामान्येन, विशिष्टलक्षणायोगाश्च द्वयोरपि ॥
अनेकान्तजयपताका
न चासाधारणादिहेतुतया तत्सिद्धिः, आद्यस्यासंभवात्, एकस्यैवानेककार्यकृत्त्वात् सर्वबुद्धैईप्तेः, अन्यथा तदतत्वप्रसङ्गः । स्वभावभेदमन्तरेण चाधिकृतसामर्थ्यस्यापि तदुभयनिमित्तत्वानुपपत्तेस्तदेकत्वापत्तिः । तथाहि - येन स्वभावेन तदेकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org