________________
६४
अनेकान्तजयपताका
किन्तु तदेवासहायत्वं सहायाभावं भेदकमन्तरेण ससहायस्येव न युज्यत इति ब्रूमः । असहायं च घटोऽयं न पटादीति क्षयोपशमानुरूपमपरित्यक्तान्योऽन्यगर्भ संवेदनमाविद्वदङ्गनादि प्रती तम् , इत्यविषयोऽयं विवादस्य । न चैतदनर्थजम् , तद्भावभावित्वोपलब्धेः, तदन्यस्य तु तदाभासत्वात् , तस्यापि च कदाचित तथाविधानुभवनिबन्धनत्वेनानिमित्तत्वायोगादिति ॥ . तदेवेत्यादि। तदेवाधिकृतं संवेदनम् , असहायमन्यरहितम् , तद. न्यविविक्तं संवेदनान्तरविविक्तम् , इति चेत् । एतदाशङ्क्याह-को वा किमाह इत्थमेवैतदित्यर्थः । किन्त्वित्यादि। किन्तु तदेवासहायत्वमन्यरहितत्वम् , सहायाभावं मुख्यम् , भेदकमन्तरेण विना, ससहायस्ये. वापरस्य, न युज्यत इति ब्रूमो न तु किञ्चिदन्यत् । प्रकृतयोजनामाह असहायं चेत्यादि । असहायं च तदन्यविविक्तं च । कथमित्याहघटोऽयं न पटादीति एवम् , क्षयोपशमानुरूपं तदनन्तधर्मकत्वेऽपि नियमप्रवृत्त्या, अपरित्यक्तान्योन्यगर्भमितरेतरानुवेधात् संवेदनमिति विशेष्यम् , आविद्वदङ्गनादि प्रतीतं सकललोकप्रसिद्धमित्यर्थः । इत्येवं प्रतीतत्वादेव, अविषयोऽयं विवादस्य, अतो यादृशमिदं तादृशोऽर्थोऽपी. ति भावः । न चैतदित्यादि । न चैतदनन्तरोदितं संवेदनम्, अन. थजमवस्तुनिमित्तम् । कुत इत्याह- तद्भावभावित्वोपलब्धेः अर्थभावे भावित्वोपलब्धेरस्य परिणाम्यर्थग्रहणस्वभावतया न विरुद्धैवेय. मिति भावनीयम् । कचिदेतदर्थाभावेऽपि भवति विकल्पजमित्याशकानिरासार्थमाह- तदन्यस्येत्यादि । तदन्यस्य त्वनर्थजस्याधिकृतसंवेदनतुल्यस्य तु, तदाभासत्वात् संवेदनाभासत्वात् , तथाविधनिर्विः कल्पकवदिति हृदयम् । तस्यापि च तदाभासस्य, कदाचिदिह वाऽ मुत्र वा, तथाविधानुभवनिबन्धनत्वेन तत्तध्यारोपानुभवनिबन्ध नत्वेन हेतुना । किमित्याह- अनिमित्तत्वायोगात् कारणात् , न चैतदनर्थजमिति योगः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org