________________
खोपज्ञटीकासहिता।
२५७ त्यादि । एतेनैकसामान्यवृत्तिनिराकरणेन, नित्यव्यापिनिर्देशसामान्यवृत्तिरपि प्रत्युक्ता विशेषेषु, नित्यस्यैकस्वभावतया कालभिन्नासु व्यक्तिषु वृत्त्ययोगः, व्यापिनः सर्वगतत्वेन निर्देशस्य देशाभावेनेति भावनीयम् ।।
आह- अनुभवसिद्धत्वात् सामान्यस्य न युज्यते सहृदयतार्किकस्य तत्प्रतिक्षेपेणात्मानमायासयितुम् , आयासस्य निफलत्वात् ; तथाहि- यदि सनातनं वस्तुसद् व्याप्येकमनवयवं सामान्यवस्तु न स्याद् न तदा देश-काल-स्वभावभेदभिन्नेषु घट-शरावो-ष्ट्रिको-दश्चनादिषु बहुषु विशेषेषु सर्वत्र 'मृद् मृद्' इत्यभिन्नौ बुद्धि-शब्दौ स्याताम् । न खलु हिम-तुषार-करकोदकाङ्गार-मुर्मुर-ज्वालानलझञ्झा-मण्डलिको-त्कलिकापवनखदिरो दुम्बर-बदरिकादिष्वत्यन्तभिन्नेषु बहुषु विशेषेष्वेकाकारा बुद्धिर्भवति, नाप्येकाकारः शब्दः प्रवर्तत इति । अतोऽस्य यथोक्ताभिन्नबुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनस्य वस्तुसतः सामान्यस्य सत्त्वमाश्रयितव्यमिति ॥
आह परः, अनुभवसिद्धत्वात् सामान्यस्य, विशेषेषु तुल्यबुद्धिभावेन, न युज्यते सहृदयतार्किकस्य भावाशून्यस्य, तत्प्रतिक्षेपेण सामान्यप्रतिक्षेपेण, आत्मानमायासयितुम् । कुतो न युज्यत इत्याहआयासस्य निष्फलत्वात् । एतदेवाह- तथाहीत्यादिना । तथाहीति पूर्ववत् । यदि सनातनं नित्यम् ; वस्तुसत्- अपरिकल्पितम् , व्यापि विशेषव्यापनशीलम् , एकं स्वरूपेण, अनवयवम्- अवयवराहतम् , सामान्यवस्तु न स्यात् ; ततः किं स्यादित्याह- न तदा देश-कालखभावभेदभिन्नेषु, केष्वित्याह- घट-शरावो-ष्ट्रिको दश्चनादिषु उदञ्चनो लोट्टकः, आदिशब्दादलिजरादिग्रहः, बहुषु विशेषेषु सर्वत्र 'मृद् मृद्' इत्येवम् , अभिन्नौ तुल्यावेकरूपावित्यर्थः; कावित्याहबुद्धि-शब्दौ स्याताम् । किमिति न स्यातामित्याह- न खल्वित्यादि नैव 'हिम-तुषार-करकोदकानि च' इत्यनेन जलभेदानाह, 'अङ्गार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org