________________
२७२
अनकान्तजयपताका
अविषयत्वापत्तिः अविगानेन तथाऽनुभवादेरधिकृतबुद्धधाकारेऽपि भावात् , तस्य च निर्विषयत्वात् , न चैतदेवम् । इति-एवम् , समानपरिणाम एव सामान्यमिति महानिगमनम् ।।
यतश्चैवम् , अतो न य एवासावेकस्मिन् विशेषे स एव विशेषान्तरे । किं तर्हि । समानः । इति कुतः सामान्यवृत्तिविचारोदितभेदद्वयसमुत्थापराधावकाशः इति । न चैवं सति परस्परवि लक्षणत्वाद् विशेषाणां समानबुद्धि-शब्दद्वयप्रवृत्त्यभावः, सत्यपि वैलक्षण्ये समानपरिणामसामर्थ्यतः प्रवृत्तेः, असमानपरिणाम निबन्धना च विशेषबुद्धिरिह । इति यथोदितबुद्धि-शब्दद्वयमत्तिः । तथा चोक्तम्"वस्तुन एव समानः परिणामो यः स एव सामान्यम् । असमानस्तु विशेषो, वस्त्वेकमनेकरूपं तु ॥१॥"
ततश्च तद् यत एव सामान्यरूपमत एव विशेषरूपम्, समानपरिणामस्याऽसमानपरिणामाऽविनाभूतत्वात् , यत एव च विशेषरूपमत एव सामान्यरूपम्, असमानपरिणामस्यापि समानपरिणामाविनाभावादिति । न चानयोर्विरोधः, अन्योऽन्यव्याप्तिव्यतिरेकेणोभयारसत्त्वापत्तेः, उभयोरपि स्वसंवेदन. सिद्धत्वात्, संवेदनस्योभयरूपत्वात् , उभयरूपतायाश्च व्यवस्थापितत्वात् ॥ _ यतश्चेत्यादि यतश्चैवम्, अतो न य एवासी समानपरिणाम:, एकस्मिन् विशेष घटादौ, स एव विशेषान्तरे शरावादौ । किं तार्ह ? समानः । इति-एवम् , कुतः सामान्यवृत्तिविचारोदितं तद्भेदद्वयं च देशा कास्यरूपं विकल्पद्वयामिति विग्रहः , तत्समुत्थाश्च तेऽपराधाश्च सदे शत्वप्रसङ्गादयस्तेषामवकाशः कुतः १- नैव, समानपरिणामस्य तद्विल क्षणत्वादिति । न चैवमिलादि न चैवं सति, परस्परविलक्षणत्वाइ विशेषाणां घट-शरावादीनाम् , समानबुद्धि-शब्दद्वयप्रवृत्त्यभावः, नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org