________________
स्वोपज्ञटीकासहिता।
२७३ माङ्गारादीनामिव । कुत इत्याह-सत्यपि वैलक्षण्ये समानपरिणामसामर्थ्यतः प्रवृत्तेः कारणात् , समानबुद्धि-शब्दद्वयस्येति । व्यतिरेकमाह- असमानपरिणामनिबन्धना च विशेषबुद्धिरिह प्रक्रमे घट-शरावादिबुद्धिवत् ।। इति-एवम , यथोदितवुद्धि-शब्दद्वयप्रवृत्तिः समानबुद्धि-शब्दद्वयप्रवृत्तिरित्यर्थः । तथा चोक्तमिति अधिकृ. तार्थप्रसाधकं ज्ञापकमाह- वस्तुन एव घटादेः समानः परिणामो यो मृदादिः, स एव सामान्यम् । असमानस्तु विशेष ऊर्ध्वतादिः । वस्त्वेकमनेकरूपं तु सामान्य-विशेषोभयरूपमपि तदनेकत्वतोऽनेकरूपमित्यर्थः ॥ १॥
ततश्चेत्यादिना मूलपूर्वपक्षग्रन्थं परिहरति- ततश्च तद् वस्तु घटादि, यत एव सामान्यरूपं मृदाद्यात्मकतया, अत एव कारणात् , विशेषरूपमूर्खादिरूपापेक्षया । कुत इत्याह- समानपरिणामस्थ प्रस्तुतस्य, असमानपरिणामाविनाभूतत्वाद् विशेषपरिणामाविनाभूतत्वादित्यर्थः । यत एव च कारणात् , विशेषरूपमूर्खाद्यपेक्षया, अत एव सामान्यरूपं मृदाद्यात्मकतया । भावनामाहअसमानपरिणामस्यापि ऊनादिरूपस्य, . समानपरिणामाविनाभावाद् मृदादिपरिणामाविनाभावादिति । न चानयोः समाना-ऽसमानपरिणामयोः; विरोधः । कुन इत्याह- अन्योन्यव्याप्तिव्यतिरेकेण उभयोः समाना-ऽसमानपरिणामयोः, असत्त्वापत्तेः, आपत्तिः प्राक् प्रदर्शितैव; तथा, उभयोरपि स्वसंवेदनसिद्धत्वात् तथानुभवभावेन । अत एवाह- संवेदनस्योभयरूपत्वात् सामान्य-विशेषोभयापेक्षया, उभयरूपतायाश्च संवेदनस्य, व्यवस्थापितत्वाधः 'न चानयोर्विरोधः' इति क्रियायोगः ॥ ____ यच्चोक्तम्-'सामान्यविशेषोभयरूपत्वे सति वस्तुनः सकललोकमसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः' इत्यादि । तदपि जिनमतानभिज्ञतामूचकमेव केवलम् , न पुनरिष्टार्थप्रसाधकमिति । न हि 'मधुरक-लड्डुकादिविशेषानर्थान्तरं सर्वथैकस्वभावमेकम
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org