________________
अनेकान्तजयपताकास्तेनाभेद एवेत्येतत् पूर्वपक्षवचनमिति योगः । किमित्याह- अत्यन्तपरित्यक्तानेकान्तवादविषयं न तद्गोचरे ढोकतेऽपीति । कुतइत्याह- अभेदाननुविद्धस्य केवलभेदस्यासिद्धेः कारणात् , भेदाननुविद्धस्य चाभेदस्येत्यसिद्धेरेव, येनाकारेण भेदस्तेन भेद एवेत्यादिस्त्वत्र प्रवृत्तिनिमित्तशून्य एव शब्द इति भावनीयम् ।।
यच्चोक्तम्--अथ येनैवाकारेण भेदस्तेनैवाभेद इत्यादि । तदप्यनेकान्तवादानाकर्णनसूचकम् । यतो न ह्येकेनैवाकारेण भेदाभेदावित्यनेकान्तनीतिः, सर्वथैकनिमित्तत्वे भेदाभेदद्वयानुपपत्तेः । किन्त्वेकधर्मिप्रतिबद्धत्वेऽपि धर्माणां मिथो भेदाद् धर्मिधर्मभावेन भेदः, अन्यथाऽन्यतररूपापत्त्या तद्भावानुपपत्तिः, प्रतीतिबाधिता चेयम् । मिथो भेदेऽपि चाशेषधर्माणां धर्मिणा व्यातेर्विशिष्टान्योऽन्यानुवेधतोऽभेदः, अन्यथा तस्येति सङ्गायोगात्, तद्धर्मिधर्मस्वभावत्वसङ्गस्यापि धर्मेभ्योऽन्यत्वे धर्मिणोऽसम्भवात् । ततश्च धर्माणामभ्यन्तरीकृतधर्मिस्वरूपत्वात् धर्मिणोऽपि चाभ्यन्तरीकृतधर्मखरूपत्वात् भेदाभेद इति । __ यच्चोक्तं पूर्वपक्षग्रन्थ एव, अथ येनैवाकारेण भेदस्तेनैवाभेद इत्यादि, तदपि । किमित्याह- अनेकान्तवादानाकर्णनसूचकं वर्त्तते । अनाकर्णनमश्रवणम् । कथमित्याह-यत इत्यादि । यतो न ह्येकेनैवाकारेण भेदाभेदावित्यनेकान्तनीतिः । कुत इत्याह-सर्वथैकनिमित्तत्वे भेदाभेदद्वयानुपपत्तेः प्रतीतमेतत् । किन्त्वेवमनेकान्तनीतिरित्याह-एकधमिप्रतिबद्धत्वेऽपि द्रव्यदेशनियततया, धर्माणां सत्त्वज्ञेयत्वादीनाम् , मिथः परस्परं, भेदात् कारणात, धर्मधर्मिभावेन तथानुभवसिद्धेन, भेदः। इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथेत्यादि । अन्यथैवमनभ्युपगमे; अन्यतररूपापत्त्या तद्भावानुपपत्तिः धर्मधर्मभावानुपपत्तिः । अस्तु को दोषः ? इत्याशङ्कयाह- प्रतीतिबाधिता चेयं धर्मधर्मिभावानुपपत्ति क्षयोपशमानुरूपं तथा तदुभयप्रतीतेः; तथा मिथ इत्यादि । मिथो भेदेऽपि च परस्परभेदेऽपि च, अशेषधर्माणां सत्त्वज्ञेयत्वादीनाम् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org