________________
स्वोपज्ञटीकासहिता।
१०७, वता।कुत इत्याह-तेभ्यः अमृत्स्वभावेभ्य उदकादिभ्य एव, व्यावृत्त्यभावात् ; न ख़ुदकममृत्स्वभावेभ्यो व्यावृत्तममृत्त्वादेव,इत्येतदप्यसमीक्षिताभिधानं वर्तते । कुत इत्याह-वस्तुनः कपालमृदादेः, असजातीयेतरेभ्यो व्यावृत्ताव्यावृत्ततयोभयस्वभावाऽऽपत्तेः। एतदेव भावयति-तथाहीत्यादिना । तथाहीति पूर्ववत् । असृत्स्वभावेभ्य एवोदकादिभ्यः, आ. दिशब्दाद् दहनादिग्रहः, व्यावृत्तस्वभावो भिन्नस्वभावः, एवं सत्यतत्स्वभावव्यावृत्त्यभ्युपगमे सति, कपालपदार्थः स्याद् न तु मृत्पिण्डशिवकघटादिभ्यो मृत्स्वभावेभ्योऽपि व्यावृत्तस्वभावः । कुत इत्याहतव्यावृत्तौ यथोदितमृत्स्वभावव्यावृत्तौ सत्याम्,अमृत्स्वभावत्वप्रसङ्गात् कपालपदार्थस्येति प्रक्रमः । एतद्भावनायैवाह- यथैवेत्यादि । यथैवामृत्स्वभावेभ्यो व्यावृत्तः सन् कपालपदार्थः, मृत्स्वभावो भवति, एवं मृत्स्वभावेभ्योऽपिव्यावृत्तःसन्नमृत्स्वभावः, स्याद् भवेत् ,न्यायानुगतमेतत्, न्यायश्च यो यत्स्वभावेभ्यो व्यावर्तते नासौ तत्स्वभावो भवतीत्ययम्। इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथेत्यादि । अन्यथैवमनभ्युपगमे। किमित्याह- अमृत्स्वभावव्यावृत्तावपि सत्यां, प्रक्रमात् कपालपदाथस्य मृत्स्वभावत्वानुपपत्तेः, यो यत्स्वभावेभ्यो व्यावर्तते न स तत्स्वभाव एव भवतीति कृत्वा न्यायानुगतमेतदिति ।। ____स्यादेतत् , वस्तुतःसजातीयेतरव्यावृत्तस्वरूपत्वात् प्रतिनियतैकस्वभावत्वात् सर्वभावानां यथोक्तदोषाभावः, तथा च यथैवासौ कपालभाव उदकादिभ्यो व्यावृत्तः सन् मृत्स्वभावः, एवं घटादिभ्योऽपि, तस्यैकखभावत्वात् तेनैव रूपेण व्यावृत्तत्वात् । इत्येतदप्ययुक्तम् , अनुभवविरुद्धत्वात् , तथाहि- यदि स येनैव खभावेनामृत्स्वभावेभ्यो व्यावृत्तस्तेनैव मृत्स्वभावेभ्योऽपि,हन्त ! बर्हि यथैवामृत्स्वभावभावैकान्तविभिन्नावभासहेतुस्तथाव्यावृत्तेः, एवं मृत्स्वभावापेक्षयाऽपि स्यात् ,तदत्यन्तविलक्षणबुद्धिजननस्वः भावव्यावृत्त्यन्यथानुपपत्तेः, न च भवति, मृत्स्वभावस्य तत्रा: नुभूयमानत्वात् । प्रतिनियतैकस्वभावानुभवनिबन्धनाभ्युपगमे च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org