________________
खोपाटीकासहिता ।।
२४७ त्तिः । न रूपज्ञानं रसज्ञानोपादानमतोऽयमंदोष इति चेत् । न न भवति, क्वचित्तथाभावोपपत्तेः, रूपज्ञानसमनन्तरभाविनो रसज्ञानस्य तदनुपादानत्वेऽनुपादानत्वप्रसङ्गात् । किं वा तत्तथाभावाभावेऽत्यन्तासत एव भवतोऽस्योपादानचिन्तया?, तत्तथाभाचे चानिवारितोऽन्वयः । एतेन सदा सत्त्वोपलम्भः प्रत्युक्तः, तत्त्वतस्तस्यापि सादृश्यनिबन्धनत्वात् , तस्य चोक्तवद् ग्रहणायोगात् , आन्तरतद्विकल्पबीजस्याप्रमाणत्वात् , तथापि तत्कल्पनायाश्चेतरत्रापि तुल्यत्वादित्युक्तप्रायम् ॥
इहैव दूषणान्तरमाह-किश्चेत्यादिना । किञ्च, 'यथादृष्टविशेषानुसरणं परित्यज्य' इत्यत्र 'तथादृष्टोऽनित्यादिरूपत्वेन, नान्यथा न नित्यादिरूपत्वेन, इत्यत्र न प्रमाणम्- नास्मिन् विषये प्रत्यक्षं प्रवर्तते, नाप्यनुमानमित्यर्थः । प्रत्यक्षमेवात्र 'तथादृष्ट-' इति विषये प्रमाणमिति चेत् । एतदाशङ्क्याह-न तदित्यादि न तत् प्रत्यक्षं कस्यचिद् वस्तुनो निश्चायकम् । तथ्यमप्यर्थविशेषं गृह्णाति न तत् , निश्चयेन 'एवमेतत्' इत्येवंरूपेण । किं तर्हि ?, तत्प्रतिभासेन तदाकारेण ग्राह्याकारेणेत्यर्थः । स चेत्यादि स च प्रतिभास एवंभूत एव- अनित्या. दिरूप एव, नान्यथेति न नित्यादिरूपः, इति- एवं, ऋते विना, अतीन्द्रियार्थदर्शितामतिशयश्चद्धां वा न विनिश्चयोपायः । न तदेव प्रत्यक्षं विनिश्चयोपायः । कुत इत्याह- संप्रमुग्धमूककल्पत्वात् तस्य, संप्रमुग्धो हि मूकः स्वप्रतिभासमपि न विनिश्चिनोतीति लौकिकमेतत्। अतोऽत्र न प्रत्यक्षमेव प्रमाणमिति । अनुमानं तर्हि भविष्यतीत्याशङ्कानिरासायाह- नानुमानम् 'अत्र प्रमाणम्' इति प्रक्रमः । कुत इत्याहतथाविधलिङ्गासिद्धेः स एवंभूत एवेत्थाद्यर्थाविनाभूतलिङ्गासिद्धेः । न चान्यत् 'अत्र मानम्' इति प्रक्रमः । कुत इत्याह- अनभ्युपगमात् अन्यस्य मानस्य । अनित्यत्वादिरूपस्यैव वस्तुनि रूपादौ विद्यमानत्वात् कारणात् , स प्रतिभासः, एवंभूतोऽनित्यादिरूप एव नान्यथेति न नित्यादिरूप इति चेत् । एतदाशङ्कयाह- कुतस्तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org