________________
५२
अनेकान्तजयपताकानात्मकत्वेन, स्वद्रव्यादिरूपेण सत्त्वात् । तथा, यत एव चासत् , अत एव सत् ; तदिति प्रक्रमः । युक्तिमाह- स्वद्रव्यादिरूपसत्त्वे सति भावात्मकत्वेन, परद्रव्यादिरूपेणाऽसत्त्वात् । अत एवेत्यादि। अत एव च कारणात्, एकत्र वस्तुनि, सदसत्त्वयोर्विरोधोऽपि न संभवति भिन्ननिमित्तत्वात् कारणात् , स्वद्रव्यपरद्रव्यादीनाम् । किमित्याह- सदसद्धतुत्वात् , स्वद्रव्यादयः सत्त्वकल्पनाया निमित्तम् , परद्रव्यादयश्चासत्त्वकल्पनाया इति, तथा अनुभवसिद्धबाच्च; एकत्र सदसत्त्वयोर्विरोधोऽपि न संभवति । एतद्भावनायाहतथाहीत्यादि । तथाहि-स्वपररूपाभ्यां यथासङ्खथं अव्यावृत्तव्यावृत्तरूपमेव तद्वस्त्वनुभूयते, अनुभवे च सद्बोधाद्यनेकरूपतायामिव को विरोधः ? । स्यादाशङ्केत्यादि । स्यादाशङ्का स्वरूपाव्यावृत्तिरेवैकरूपा, पररूपव्यावृत्तिरिति ।
आह च"सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः ।। १ ।। तस्माद् यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः।
जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः" ।।२॥ इत्यादि ।। एषाऽप्ययुक्ता आशङ्का । कुत इत्याह- विहितोत्तरत्वात् न स्वरूपसत्त्वमेव पररूपासत्त्वमित्यादिना । अनन्तरोदितमपि श्लोकद्वयं सदसद्रूपवस्सुव्यवस्थापकमेव, तत्त्वतोऽन्यरूपाभावमन्तरेणान्यतोऽन्यव्यावृत्त्यसिद्धेः स्वव्यावृत्तिवद् व्यावृत्त्यन्तराभावे न प्रकल्पना बीजाभावादिति निर्लोठितमेतदर्थतः । यस्मादेवं तस्मात् समुत्सारितपक्षपातैायविद्भिर्युक्तियुक्तत्वात् कारणात् , सदसद्रूपं वस्त्वङ्गीकर्त्तव्यमित्याह च- यस्मात् सत्त्वमसत्त्वं च । किमित्याह- न विरुद्धं मिथो द्वयम् । उक्तवदिति । वस्त्वेकं सदसद्रूपं शबलतया, ननु तत्किं. न युज्यते ? युज्यत एव; एवं पूर्वपक्षश्लोकपरावर्चना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org