________________
अहम्
अथ तृतीयः परिच्छेदः।
यच्चोक्तम्-एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यमित्यादि । तदप्ययुक्तम् , सामान्यविशेषरूपस्य वस्तुनोऽनुभवसिद्धत्वात् , तथाहि-घटादिषु घटो घट इति सामान्याकारा बुद्धिरुत्पद्यते, मार्तिकस्ताम्रो राजत इति विशेषाकारा च, पटादिर्वा न भवतीति । न चार्थसद्भावोऽर्थसद्भावादेव निश्चीयते, सर्वसत्वानां सर्वज्ञत्वप्रसङ्गात्, सर्वार्थानामेव सद्भावस्याविशेषात् । कि तहि अर्थज्ञानसद्भावात् । ज्ञानं च सामान्यविशेषाकारमेवोपजायत इति । अतोऽनुभवसिद्धत्वात् सामान्यविशेषरूपं वस्त्विति ॥
अधिकारान्तरमधिकृत्याह-यच्चोक्तमित्यादिना । यच्चोक्तं पूर्वपक्षप्रन्थे- एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यमित्यादि । तदप्ययुक्तम् । कुत इत्याह- सामान्यविशेषरूपस्य वस्तुनोऽनुभवसिद्धत्वात्। एतदेवाह- तथाहीत्यादिना, तथाहि-घटादिषु पदार्थेषु, घटो घट इत्येवं सामान्याकारा बुद्धिरुत्पद्यते, तथा मार्तिको मृदादिनिवृत्तो मार्तिकः, ताम्रविकारस्ताम्रः, रजतविकारो राजतः, इति विशेषाकारा च बुद्धिरुत्पद्यते, पटादिर्श न भवतीत्येवम् । इयं च वस्तुतत्त्वव्यवस्थानिबन्धनमित्यधिकृत्याह- न चेत्यादि । न चाऽर्थसद्भावोऽर्थसद्भावादेव कारणात् , निश्चीयते । कुत इत्याह- सर्वसत्वानां सर्वनत्वप्रसङ्गात् , प्रसङ्गश्च सर्वार्थानामेव भवनोदरवर्तिनां सद्भावस्याविशेषात् , किं तर्हि ? अर्थज्ञानसद्भावाद् अर्थसद्भावो निश्चीयते। यदि नामैवं, स्वतः किमित्याह- ज्ञानं च सामान्यविशेषाकारमेवोपजायत इति निदर्शितम् । अतोऽनुभवसिद्धत्वात् कारणात् , सामान्यविशेषरूपं बस्त्विति ॥
न चैतद्विज्ञानं भ्रान्तमिति युज्यते, घटादिसन्निधावविकलतदन्यकारणानां सर्वेषामेवाविशेषेणोपजायमानत्वात् । भ्रान्तमेजत, विकल्पकत्वादिति चेत् । अभ्रान्तं तर्हि कीदृग् ? इति वाच्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org