________________
स्वोपज्ञटीकासहिता ।
१७१
दप्रसङ्गात् तदेकाभिधेयपरिणामभावेन । यदि नामैवं ततः किम् ?, इत्याहप्रवर्त्तते च समयात् सङ्केतेन, जलेऽनलशब्दः । कुत इत्याह- तथाप्रतीतेः समयद्वारेण प्रवृत्तिप्रतीतेः, इत्येवं कथमनयोः प्रक्रमाद् वस्तुवाचकयोः, वास्तवो योगस्तात्त्विकः सम्बन्धः ? इति । एतदाशङ्कयाह - उच्यते तत्र परिहारः, शब्दस्यानेकस्वभावत्वात्, शब्दग्रहणं वस्तूपलक्षणम्, उभयोरनेकस्वभावत्वात्, अनयोर्वास्तत्रो योग इति । अभुमेवार्थं प्रकटयन्नाह नानलेत्यादि । न यस्माद्, अनलशब्दस्याऽनलगताभिधेयपरिणामापेश्री अनलगतमभिधेयपरिणाममपेक्षते तच्छीलश्च इति विग्रहः, तदभिधानस्वभावः एव अनलाभिधानस्वभाव एव, एकस्वभावः, अपि तु तथाविलम्बितादित्वेन समयापेक्षितत्स्मृतिपूर्वकत्वेन, जलगताभिधेयपरिणामापेक्षी, तदभिधानस्वभावोऽपि जलाभिधानस्वभावोऽपि । कुत इत्याह- तथा तत्प्रतीतेः तथाविलम्बितादित्वेन जलप्रतीतेरिति । तद्वैचित्र्येण प्रक्रमादनलशब्दस्वभाववैचित्र्येण, दोषाभावात् पूर्वोक्तदोषनिवृत्तेरित्यर्थः । क्षयोपशमवैचित्र्यतः कारणात्, तथाप्रवृत्तेर्जलेऽनलशब्दसमयप्रवृत्तेः । अन्यथैवमनभ्युपगमे, अहेतुकत्वेन तदभावप्रसङ्गात् तथा प्रवृत्त्यभावप्रसङ्गादिति । एतेनाऽनन्तरोदितेन, तथानुभवसिद्धेनोक्तनीत्या, समयाद् जलेऽप्यनलशब्दात् प्रतीतिभावतः संवेदनसिद्धेन शब्दार्थक्षयोपशमानां स्वभाववैचित्र्येण, किमित्याह - एतदपि प्रत्युक्तम् । यदुक्तं परैः, किं तदित्याह- शब्देन्द्रियार्थयोः शब्दश्चेन्द्रियं च शब्दन्द्रिये, तयोरर्थो विषयौ तयोर्भेद एव । कुत इत्याह- अव्यापृतेन्द्रियस्य पुंसः, अन्यवाग्मात्रेणैव अन्यस्माद् वाग्मात्रं तेनैव, इन्द्रियापोऽविभावनात् इन्द्रियार्थाऽदर्शनाद्, विभावनं दर्शनं, तथाहि - प्रतीततत्, न शब्दादेव पश्यतीति । तथेन्द्रियादेव च सकाशात्, शब्दार्थाप्रतिर्नहि पनसं पश्यन्नप्यकृतसमयो वाहीकः पनसमित्यवैतीत्यादि । दिशब्दात्
"अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः । शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते " ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org