________________
स्वोपज्ञटीकासहिता..
Jain Education International
सामान्य वेदनेन तदप्रामाण्यप्रसङ्गाच्च । तत्तद्ग्रहणस्वभावतातदङ्गीकरणे च विकल्पज्ञानेऽपि तुल्यः परिहारः, तस्यापि तद्महणस्वभावताऽभ्युपगमात् । तथाविधग्राह्याभावादस्य कुतस्तद्धहणस्वभावतेति चेत् । न, तथाविधग्राह्याभावे प्रमाणाभावाद, प्रत्यक्षस्य स्वलक्षणविषयत्वेन तत्राप्रवृत्तेः, अनुमानस्याप्युपलब्धिलक्षणप्राप्तार्थविषयत्वात्, तस्य च तदभावाभ्युपगमात् । न हि साधारणं रूपमुपलब्धिलक्षणप्राप्तमिष्यते भवद्भिः, तदवस्तुत्वप्रतिज्ञानात् ; अनीदृशानुपलब्धेश्वा भावनिश्चायकत्वानुपपत्तेः । एतेन तद्वाधकप्रमाणप्रवृत्तिः प्रत्युक्ता, उक्तवत्मत्यक्षादेस्तद्वाधकत्वायोगात् । युक्त्या तदयोगो बाधक इति चेत् । न, विकल्पानुपपत्तेः । युक्तिर्हि प्रमाणमप्रमाणं वा स्यात् ? । प्रमाणं चेत् । न प्रत्यक्षादेरन्यदिति, अत्र चोक्तो दोषः । अप्रमाणत्वे तु तद्वाधकत्वानुपपत्तिः, अतिप्रसङ्गात् ॥
स्यादेतद् न तत्त्वतो गृहीतग्राहित्वेन हेतुना, अस्य विकल्पस्याप्रामाण्यम्, अपि त्वविषयत्वेनेति । एतदाशङ्क्याह- कथमयं विकल्पोऽविषय इति वाच्यम् ? | यदनेन वेद्यते विकल्पेन न तदस्तीति अविषय इति चेत् । एतदाशङ्क्याह-- क्व तद् नास्ति यदनेन वेद्यते, किं तत्रैव विकल्पे, उत बहिरिति । यदि तत्रैव विकल्प एव नास्ति, कथं तेन वेद्यते ? ; वेद्यमानं वा कथं न तत्र विकल्पे ? इति चिन्त्यम् । द्वितीयं विकल्पमधिकृत्याह -- अथ बहिः यदनेन वेद्यते न तदस्तीति । एतदाशङ्क्याह-- अविकल्पकेऽपि समानः प्रसङ्गोऽविषयत्वप्रसङ्गः । कथमित्याह - तेनापि अविकल्पकेन वेद्यमानस्य बहिरभावात्; अभावश्च स्वरूपस्यैव वेदनात् । तदित्यादि । तदविकल्पकं वेद्यमानबहिः स्थतुल्यरूपं विषयतुल्यरूपम्, इत्यस्माददोष इति चेत् । एतदाशङ्क्याह- केयं तत्तुल्यरूपता बहिःस्थतुल्यरूपता ? इति वाच्यम् । किं तत्साधारणरूपभावो बहिःस्थसामान्यरूपभावोऽविकल्पकस्य, उत तद्ग्रहणस्वभावता बहिःस्थप्रहणस्वभाव वेति ? | किश्वातः ? उभय२९
For Private & Personal Use Only
२२५
-
www.jainelibrary.org