________________
खोपज्ञटीकासहिता।
२३१ रूपादिस्वलक्षणानां न रसादिफलभेदो न्याय्यः, एवमनित्या-ऽनात्मकक्षस्त्वनुभवानामपि न नित्या-ऽऽत्मादिविकल्पजननशक्तयाख्यः फलभेदो न्याय्यः । इहैवाभ्युच्चयमाह-का चेयमित्यादिना। का चेयं तथावि. धविकल्पजननशक्तिर्भवतोऽभिप्रेता ? । किं तदुत्तरं प्रक्रमादविकल्पप्रत्यक्षोत्तरं मानसं स्वविषयानन्तरेत्यादिलक्षणम् , उतान्यैव काचिदालयगता? । उभयथापि दोषमाह- यदि मानसम् , कथं स्वलक्षणाद् मानसादस्वलक्षणजन्म विकल्पोत्पादः ?। विकल्पास्वलक्षणत्वमाहअस्वलक्षणं च विकल्पो भवन्नीत्या । कुत इत्याह- असदाकाररूपत्वात्- असदाकारो' विकल्पबुद्धिप्रतिभासोऽस्वलक्षणत्वाभ्युपगमात् स एव रूपं यस्य स तथा तद्भावस्तस्मात् । न स्वसंवित्तिस्तत्र विकल्पेऽस्खलक्षणम् , अपि तु बहिर्मुखावभास एवास्वलक्षणमिति चेत् । एतदाशझ्याह- न खलु सा स्वसंवित्तिस्ततो बहिर्मुखावभासादन्या, इत्येवं कथं नास्वलक्षणम् ?-अस्वलक्षणमेव । असनसौ बहिर्मुखावभासः, सा तु स्वसंवित्तिः सती विद्यमाना, स्वसंविदितत्वादेव कारणादिति चेत्। एतदाशङ्कयाह- कथमसौ स्वसंवित्तिस्तन्मात्रतत्त्वा स्वसंवित्तिमातद्भावा विकल्प इति चिन्त्यम्, न तत्र स्खलक्षणातिरिक्तोऽश इति कृत्वा । असदाकारानुवेधादसौ विकल्प इति चेत् । एतदाशङ्कयाहकथमसता आकारेणानुवेधो नाम स्वसंविदः ?-नैवेत्यर्थः। स आकारो निर्विषयत्वात् कारणादसंस्तुच्छः, न तु तथाप्रतिभासनेन न पुनर्बहिमुंखावभासप्रतिभासनेनासन्निति चेत् । एतदाशङ्कयाह-न स्वसंवित्तिरधिकृता तथाप्रतिभासनाद् बहिर्मुखावभासप्रतिभासनादन्याऽर्थान्तरभूतेति कृत्वाऽस्खलक्षणत्वमेव स्वसंविदः ।।
तस्य विभ्रमरूपत्वात् तदन्या-ऽनन्यत्वकल्पनैवायुक्तति चेत् । कोऽयं विभ्रम इति कथनीयम् । अनिरूप्यस्वरूपस्तत्त्वतोऽसद्रूप इति चेत् । कथमयं स्वसंवित्तिभेदक इति वाच्यम् । न तत्त्वत इति चेत् । उत्सनो विकल्पः। अस्त्विति चेत् । प्रतीत्यादिबाधा । चेतनव तथाभूता विकल्प इति चेत् । किंभूतेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org