________________
स्वोपज्ञटीकासहिता। तिरिक्तश्चासौ शब्दश्चेति विग्रहः, तद्भावतः कारणात् , अस्य विकल्पकस्य, अर्थसामर्थ्यजन्यत्वानुपपत्तिरसम्भव एवेति चेत्- उक्तं च धर्मकीर्तिना- "न गर्थे शब्दाः सन्ति तदात्मानो वा, येन तस्मिन् प्रतिभासेरन्" इति। एतदाशङ्क्याह-न,बोधनियतार्थतादिभिः आदिशब्दात् कुशलतादिपरिग्रहः, व्यभिचारात्-अर्थसामर्थ्यजन्यत्वानुपपत्तेरिति।न ते बोधादयः,अर्थादन्यतः समनन्तरादेर्भावादिति चेत्। एतदाशक्याह- शब्दोऽपि तद्योग्यद्रव्येभ्यः शब्दप्रायोग्यद्रव्येभ्योऽन्येभ्य एव, इत्येवं, समानस्तुल्यः, समाधिः परिहारः। अनेन च "अयमर्थासंस्पसे संवेदनधर्मोऽर्थेषु तन्नियोजनात्" इत्यपि प्रत्युक्तम् ,अनभ्युपगमादिति।।
न चैतदभ्युपगममात्रम् , तावत्सङ्घातजस्यैव तथार्थग्रहणस्वभावत्वात् , अविगानतस्तथानुभवसिद्धः, एवमेव व्यवहारदर्शनादिति; तथाहि-एतदिन्द्रियद्वारानुसार्येव विज्ञानमाविष्टाभिलापम् 'अहिरहिः' इति योजकं दर्शकं च धारावाहि तथाव्यवहारबीजं प्रतिप्राण्यनुभवसिद्धमेव । न चेहान्यदेव दर्शनम्,अन्य एव च विकल्पः, विकल्पेनाऽदर्शनात् , दर्शनेन चाविकल्पनात्, तयोरसहवृत्तेरुपादानादिभावात् । इत्येकमेवेदमिति ॥ .. न चेत्यादि । न चैतत्-शब्दोऽपि तद्योग्यद्रव्येभ्य इति यदुः तमेतत् , अभ्युपगममात्रं, अपि तु सोपपत्तिकमित्यभिप्रायः । कुत इत्याह- तावदित्यादि । तावत्संघातजस्यैव रूपालोकमनस्कारचक्षुःशब्दसंघातजस्यैव 'विकल्पज्ञानस्य' इति प्रक्रमः, तथा तेन निश्चितप्रकारेणाऽर्थग्रहणस्वभावत्वात् । एतच्चैवमर्थग्रहणस्वभावत्वं, अविगागानतोऽविगानेन, तथा तेन प्रकारेणाऽनुभवसिद्धेः, अनुभवसिद्धिश्चैवमेव व्यवहारदर्शनादिति । एतदेव निदर्शनेनाह- तथाहीत्यादि । तथाहीत्युपप्रदर्शने, एतद् वक्ष्यमाणम्, इन्द्रियद्वारानुसार्येव तद्व्यापाराऽभावेऽभावात् , विज्ञानम्। किंविशिष्टमित्याह- आविष्टाभिलापं प्रविष्टशब्दं शब्दसन्मिश्रमित्यर्थः । किंविशिष्टमित्याह- अहिरहिः। सर्पः सर्प इत्येवं योजकं शब्दस्य, दर्शकं चार्थस्येन्द्रियव्यापारेण,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org