________________
२२९
स्वोपज्ञटीकासहिता। परहेतुना विशेषान्तरसमारोपाद् हेतोः, 'नान्येषां' इति वर्तते । निद. शनमाह-दीपप्रभायामिव विषयभूतायां मणिबुद्धेः कुञ्चिकादिविवरोपलम्भेनेव, इत्येवं संवादिभ्य एव विकल्पेभ्यस्तनिश्चितिरभिप्रेततत्त्वनिश्चिति संवादिभ्यः ।।
एतदप्यसत, अविचारितरमणीयत्वात् । तत्र यत्तावदुक्तम्'स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः' इति । अत्र किमिदं स्वलक्षणदर्शनं नाम?, का वा तदाहिता वासना, यत्कृतविप्लवरूपाःसर्व एव विकल्पाः? इति । वस्त्वनुभवः स्वलक्षणदर्शनम् , तदाहितवासना तु तथाविधविकल्पजननशक्तिः। यद्येवम् , कथं निरंशवस्तुविषयाद् निरंशानुभवात् तथाविधविकल्पजननशक्तीनां प्रभूतानां सम्भवः ?, कथं वैकस्या एवानेकविकल्पजन्म ? । समुत्पद्यन्ते च स्वलक्षणदर्शनानन्तरं नित्यानित्यादिविकल्पाः, क्रमेणैकस्य, अक्रमेण चानेकपमातृणाम् । न चैते शक्तिभेदैकानेकजनकत्वे विना । न च भूयसामपि निरंशवस्तुविषयनिरंशानुभवानां तत्त्वतस्तत्वे विशेषः, रूपादिस्वलक्षणानामिव । तन्न तेषामिवैकस्य बहूनां वानन्तरं पारम्पर्येण वा तथाविधफलभेदोऽमीषां न्याय्य इति भाव्यमेतत् । का चेयं तथाविधविकल्पजननशक्तिः, किं तदुत्तरं मानसम्, उतान्यैव काचित् ? । यदि मानसम् , कथं स्वलक्षणादस्वलक्षणजन्म?| अस्वलक्षणं च विकल्पः, असदाकाररूपत्वात् । न स्वसंवित्तिस्तत्रास्वलक्षणम् , अपि तु बहिमुखावभास एवेति चेत् । न खलु सा ततोऽन्या, इति कथं नास्वलक्षणम् । असनसौ, सा तु सती, स्वसंविदितत्वादेवेति चेत् । कथमसौ तन्मात्रतत्त्वा विकल्प इति चिन्त्यम् । असदाकारानुवेधादिति चेत् । कथमसताऽनुवेधो नाम ? । स निर्विषयत्वादसन् , न तु तथाप्रतिभासेनेति चेत् । न स्वसंवित्तिस्तथाप्रतिभासनादन्या, इत्यस्वलक्षणत्वमेव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org