________________
स्वोपज्ञटीकासहिता।
१९९ रूपादिपिकल्पे भावात् , तदन्यस्य च अनधिगतस्य, इतरत्राऽपि अनुमानविकल्पेऽपि अभावाद्, इति अनालोचिताऽभिधानत्वमिति । एवं प्रवर्तकत्वादि अपि अस्य प्रक्रमाद् अनुमानविकल्पस्य समानम् , इतरेणं रूपादिविकल्पेन । कुत इत्याह- तत्रापि रूपादिविकल्पे सति, रूपादिनिश्चयादेव प्रवृत्तेरिति, व्यवहारे प्रवृत्त्यादिरूपे, प्रमाणमेवाऽयं रूपादिविकल्प इति चेत् । एतदाशङ्कयाह- क तर्हि अप्रमाणमिति ?, रूपादौ एव इति चेत् अप्रमाणम्, कुतोऽयं तत्र रूपादौ, अकारणो द्वेषः ?, प्रागेव अविकल्पेन, तदधिगमात् रूपाद्यधिगमात् इति चेत् । एतदाशङ्कयाह- समानोऽयम्- अधिगमः, त्वन्नीत्या अनित्यत्वादौ अनुमेये, तथाऽपि एवमपि, न तद्वद् रूपादिवद्, तदर्शनं नित्यत्वादिदर्शनमिति चेत् । एतदाशङ्कयाह-न तर्हि प्राग अविकल्पेन, तद्वद् रूपादिवत् , तदधिगमोऽनित्यत्वाद्यधिगमः, अन्यथा यदि स्यात्, ततो रूपादिनिश्चयवत् स्यात् तदा एवाऽयं नित्यत्वादिनिश्चयः । कुत इत्याह-निमित्ताविशेषात् अविशेषश्च तदधिगमस्य एव अविकल्पेन रूपाधऽधिगमस्य एव, तत्त्वतः परमार्थेन, तन्निमित्तत्वात् अनित्यादिनिश्चयनिमित्तत्वात् , बाधकाऽनुपपत्तेः रूपादिनिश्चयानुमानेन, तथा च आह- अविशेषेण भावात् रूपाद्यधिगमवद् अनित्यत्वाद्यधिगमत्वेन भावात् , भावश्च एकान्तैकत्वात् अधिकृताऽधिगमस्य । इत्थं
एतदङ्गीकर्तव्यमित्याह- अन्यथा तदनुपपत्तेः एकान्तैकत्वाऽनुपइत्तेरधिकृतानुभवस्य, रूपादिनिश्चयवत् स्यात् तदा एव अयमिति स्थितम् ।। किञ्च, अयमधिकृताधिगमः किं स्वगृहीतनिश्चयजननस्वभावः?, त समारोपजननस्वभावः?, आहोस्विद् उभयजननस्वभावः १, नेताहो अनुभयजननस्वभाव इति । यदि खगृहीतनिश्चयजननस्वअकः, निरवकाशः समारोपः, न चासौ अन्यनिमित्तोऽनिमित्तो
अथ समारोपजननवभावः, कुतोऽस्माद् निश्चयजन्म, अतभावभावे अतिप्रसङ्गात् । उभयजननखभावत्वे विरोधः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org