________________
८२
क्षमन्थे, एतेन नित्यानित्यमपि प्रतिक्षिप्तमवगन्तव्यं विरोधादेवेत्यादि । तदपि न सम्यक् । कुत इत्याह-- प्रमाणतस्तथाऽवगमात् तथेति नित्यानित्यप्रकारेणाऽवगमात् । एतदेव भावयति-- तथाहीत्यादिना । तथाह्यध्यक्षेण नित्यानित्यमेव तद् वस्तु, अवगम्यते; अन्यथैवमनभ्युपगमे, तदवगमाभावप्रसङ्गात् । एतद्भावनायाह-- तथा चेत्यादि । तथा च यदि तद् वस्तु, अप्रच्युतानुत्पन्न स्थिरैकस्वभावमिति पूर्ववत् अनेन प्रकारेण सर्वथा नित्यमभ्युपगम्यते, एवं तहि तद् वस्तु विज्ञानजननस्वभावं वा स्यात्, अजननस्वभावं वा ? । किंचात: ?, यद्याद्यः पक्षो विज्ञानजननस्वभावमित्ययम्, एवं सति सर्वत्र क्षेत्रे, सर्वदा काले, सर्वेषां प्रमातॄणां तद्विज्ञानप्रसङ्गोऽधिकृतवस्तुविज्ञानप्राप्तिः । कुतइत्याह-तस्यैकस्वभावत्वात् क्षेत्रादिभिर्विशेषाऽनाधानादित्यर्थः । न चैतदेवं यथोक्तम् । कुत इत्याह-- कचित् क्षेत्रे, कदाचित् काले, कस्यचिदेव प्रमातु:, तद्विज्ञानभावात् तस्मिन् वस्तुनि विज्ञानभावात् । प्रकृतमेव समर्थयते-- न चेत्यादिना । न च सर्वथैकस्वभावस्य वस्तुनः, देशादिकृतो विशेष इत्येवंभूता, कल्पना युज्यते । कुत इत्याहतद्भावे देशादिकृतविशेषभावे, अनित्यत्वप्रसङ्गाद् न हि प्राक्स्वस्वभावनिवृत्तिमन्तरेण वस्तुनो विशेषः । सहकारिणमपेक्ष्यालोकादिकं जनयतीति चेद् वस्तुविज्ञानमिति । अत्राह - न, एकान्तनित्यस्य वस्तुनः, अपेक्षाऽयोगादेकरूपतयेति भावः । एतद्भावनायैवाह - तथाही - त्यादि । तथाहि सहकारिणा तस्य वस्तुनः, कश्चिद् विशेषः क्रियते, नवेति वाच्यम् । उभयथापि दोषमाह - यदि क्रियते, स किमर्थान्तरभूतोऽनर्थान्तरभूत इति । अत्राप्युभयथापि दोषमाह - यद्यर्थान्तरभूतस्तस्य किमायातं वस्तुनः, तत् तदवस्थमेवेत्यर्थः । स विशेषोऽर्थान्तरभूतः, तस्य वस्तुनः, विशेषकारक इति चेत् । एतदाशङ्कयाहन, अनवस्थाप्रसङ्गात् । एनमेवाह - तथाहीत्यादिना । तथाहि स विशेषो मूलविशेषकृतः, ततो वस्तुनः, भिन्नोऽभिन्नो वा तदेवावर्तत - इत्येवमनेन प्रकारेण, अनवस्था चक्रकानिवृत्तेरिति । अथानर्थान्तरभूतः
अनेकान्तजयपताका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org