________________
अर्हम्
अथ द्वितीयः परिच्छेदः।
यच्चोक्तम्-एतेन नित्यानित्यमपि प्रत्युक्तमवगन्तव्यं विरो. मदेचेत्यादि । तदपि न सम्यक्, प्रमाणतस्तथाऽवगमात् , तथा ह-अध्यक्षेण नित्यानित्यमेव तदवगम्यते, अन्यथा तदवगमाभावप्रसङ्गात् । तथा च-यदि तदप्रच्युतानुत्पन्नस्थिरैकस्वभावं सर्वथा नित्यमभ्युपगम्यते, एवं तर्हि तद् विज्ञानजननस्वभावं पा स्यात् , अजननस्वभावं वा ?। यद्याद्यः पक्षः, एवं सति सर्वत्र सर्वदा सर्वेषां तद्विज्ञानप्रसङ्गः, तस्यैकस्वभावत्वात् , न चैतदेवम्, कचित् कदाचित् कस्यचिदेव तद्विज्ञानभावात् । न च सर्वथैकस्वभावस्य देशादिकृतो विशेष इति कल्पना युज्यते, बद्भावेंनित्यत्वप्रसङ्गात् । सहकारिणमपेक्ष्य जनयतीति चेत् । न, एकान्तनित्यस्यापेक्षाऽयोगात् , तथाहि-सहकारिणा तस्य कश्चिद् विशेषः क्रियते, नवा, इति वाच्यम् ?। यदि क्रियते, स किमर्थान्तरभूतः, अनर्थान्तरभूतो वा ? इति। यद्यर्थान्तरभूतः, तस्य किमायातम् ? । स तस्य विशेषकारक इति चेत् । न, अनवस्थाप्रसङ्गात् , तथाहि--स विशेषस्ततो भिन्नः, अभिन्नो वा? इति तदेवावर्तत इत्यनवस्था । अथानान्तरभूतः स विद्यमानः, अविद्यमानो वा ?। यदि विद्यमानः कथं क्रियते ?, करणे वाऽनवस्थाप्रसङ्गः, सकृत्करणेऽपि विद्यमानत्वाविशेषेण भूयोभूयः करणमित्यनवस्था । अथाविद्यमानः; व्याहतमेतत्--सतोनर्थान्तरभूतोऽविद्यमानश्चेति । करणे वाऽनित्यत्वापत्तिरिति, तथाहि-तस्मिन् क्रियमाणे पदार्थ एव कृतः स्यात् , तदव्यतिरिक्तत्वात् तस्य ॥
अधिकारान्तरमधिकृत्याह- यच्चोक्तमित्यादि । यच्चोक्तं पूर्वप
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org