________________
१२९
स्वोपज्ञटीकासहिताः..... तदाकारतासिद्धेः, तस्य प्रतिभावनियमात् , बोधामूर्तत्वरूपतया तत्तुल्याकारताऽयोगात् , स्वाकारस्य तु विकल्पेऽपि भावात् , तस्यापि तनिश्चयात्मकत्वेन तदनुगुणत्वात् । इति व्यवहारतः खभावभेदाभावः ॥ - न चेत्यादि । न चानयोः प्रक्रमात् सविकल्पाविकल्पयोः प्रस्तुतज्ञानयोः, स्वभावभेद एवैकान्तेन । कुत इत्याह- तत्त्वतः परमार्थेन, एकविषयत्वात्। कथमेतदेवमित्याह-विकल्पस्यापि पारम्पर्येण तद्वस्त्वालम्बनत्वात् । एतच परदर्शने विकल्पस्य गृहीतग्राहित्वाभ्युपगमेन, खदर्शने त्ववग्रहा-ऽपायभावेन, इति सामान्येनैव तद्वस्त्वालम्बनत्वमाह । तदुत्थज्ञानोपादानत्वात् विवक्षितविषयोत्थाविकल्पज्ञानोपादानत्वाद् विकल्पस्य । यदि नामैवं ततः किमित्याह-तत्वभावेत्यादि । तत्स्वभावानुकारातिरेकेण तदुत्थज्ञानस्वभावानुकारातिरेकेण, विकल्पस्वेति प्रक्रमः, तदुपादानत्वायोगात् तदुत्थज्ञानोपादानत्वायोगाद् विकल्पस्य । न ह्यमृत्स्वभावमुदकं मृदुपादानम् , अपि तु घट एव, तत्स्वभावानुकारादिति भावनीयम् । दोषान्तरपरिजिहीषयाहन चेत्यादि। न च तद्विषयवस्तु अतीतमिति कृत्वा क्षणिकत्वेन, अनालम्बनं, प्रक्रमाद्विकल्पस्य, किन्त्वालबनमेव । कुत इत्याह- अविकल्पस्यालम्बनत्वात् अतीतत्वेऽपीत्यभिप्रायः । न च तद्भावकालेऽविकल्पभावकाले, तद्भावो विषयवस्तुभावः । कुत इत्याहतिदसदुदयाभ्युपगमात् तस्मिन् विषयवस्तुन्यसत्युदयाभ्युपगमात्, प्रक्रमादविकल्पस्य । न चैवमपि तदसदुदयेऽपि, न तदतीतता न विषयवस्त्वतीतता । कुत इत्याह- तदा विकल्पोदयकाले, तदसत्त्वेन विषयवस्त्वसत्त्वेन, तदुपपत्तेरतीततोपपत्तेः । न च तदाकारतादिना विषयवस्त्वाकारतादिना, आदिशब्दादानन्तर्याविग्रहः, भेदः सविकल्पाविकल्पयोरिति प्रक्रमः । कुत इत्याहइयोरपि अनयोः, तदाकारताऽसिद्धेविषयवस्त्वाकारताऽसिद्धेः , तस्याकारस्य प्रतिभावनियमाद् भावं भावं प्रति नियमात् । न ह्यन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org