________________
स्वोपज्ञटीकासहिता।
२०९ लिङ्गाऽसम्भवात् स्वभावकार्याऽसिद्धेः, स्वभावस्य तादात्म्येन तत्त्वात् तद्वत् तदग्रहणात् , तद्ग्रहे साध्यप्रतिपत्तेः, तदप्रतिपत्ती तद्ग्रहणाऽयोगात् एकान्तैकत्वात् , तथाग्रहे मोहाऽभावात, भावे वा निवृत्त्यनुपपत्तेः उपायाऽभावादिति । अनेन शिंशपादिपतिपत्तौ वृक्षाऽप्रतिपत्तिः प्रत्युक्ता, तुल्ययोगक्षेमत्वात् , अन्यथा कयश्चित् तद्भेदापत्तेः । व्यावृत्तिभेदोऽभ्युपगम्यत एव इति चेत् , न तर्हि तदेकस्वभावता । सोऽपारमार्थिक इति चेत्, किमर्थमस्योपन्यासः ?, व्यवहारार्थमिति चेत् , कीदृशोऽसता व्यवहारः १, परमार्थतो भ्रान्त इति चेत् , न तस्वतः साध्यसाधनभाव इति । एतेन "सर्व एव अयमनुमानाऽनुमेयव्यवहारोबुद्ध्यारूढेन धर्मधर्मिन्यायेन" इत्येतदपि प्रत्युक्तम् , अस्य तावदर्थाऽप्रतिबद्धस्वात् ,तस्य एकत्वेन अतथाभूतत्वाद् नीला नील-पीतबुद्ध्याकारतुल्यत्वात् परप्रतिपादनोपायत्वानुऽपपत्तेरतिप्रसङ्गादिति न स्वभावहेतोस्तदवगतिः ।। ... न चेत्यादि । न च अनुमानमत्र प्रक्रमाद् निर्विकल्पकत्वे प्रत्यक्षस्य प्रमाणम् । कुत इत्याह- अस्य प्रत्यक्षस्य, स्खलक्षणत्वात् । यदि नामैवं ततः किमित्याह- अनुमानस्य च सामान्यलक्षणाऽऽलम्बनत्वात तत् कथं अन्याऽऽलम्बनमन्यत्र प्रमाणं भवति ?। दृषणान्तरमाह- न चेदमित्यादि । न च इदमनुमानम् , परपक्षे ए. कान्तकस्वभाववादिपक्षे, चारु शोभनम् , गमकलिङ्गाऽसंभवात्, असंअवश्च स्वभाव-कार्याऽसिद्धेः- स्वभावश्च कार्य च स्वभाव-कार्ये लिङ्गे इति प्रक्रमः तयोरसिद्धः, असिद्धिश्व स्वभावस्य सत्त्वादेः, तादात्म्येन साध्यात्म्येन हेतुना, तत्त्वात् साध्यत्वात् । यदि नामैवं ततः किमिलाह- तद्वत् साध्यवत् , तदग्रहणात् खभावाऽग्रहणात् । इत्थं चैतद् अङ्गीकर्तव्यमित्याह- तद्ग्रहे स्वभावग्रहे, साध्यप्रतिपत्तेः। नान्यथा इदमित्याह- तदप्रतिपत्तौ साध्याऽप्रतिपत्तौ,तग्रहणाऽयोगात् स्वभामहणाऽयोगात् , अयोगश्च एकान्तैकत्वात् प्रक्रमात् साध्य हेत्वोः ।
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org