________________
२८.
अनेकान्तजयपताका
तथा चोक्तम्
"यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ॥ १ ॥ गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत्तावत् स संसारे ॥ २ ॥ आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ । अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ॥ ३ ॥ कर्मक्षयाद्धि मोक्षः स च तपसस्तच्च कायसन्तापः । कर्मफलत्वान्नारकदुःखमिव कथं तपस्तत्स्यात् १ ॥ ४ ॥ न स्वेच्छाप्रतिपत्त्या विशिष्टसुखभावतुल्यवृत्तित्वात् । इष्टौ प्रतीतिकोपस्तदन्यबन्धो द्वयेऽपि समः ॥ ५ ॥ चित्रं च कर्म कार्यात् सङ्कुशादेव तत्क्षयोऽमुक्तः । दुःख्येव तपस्वीति च तदभावो योगिनां चैव ॥ ६ ॥ अन्यदपि चैकरूपं तच्चित्रक्षयनिबन्धनं न स्यात् । तच्छक्तिसङ्करक्षयकारीत्यपि वचनमात्रं तु ॥ ७ ॥ अक्लेशात् स्तोकेऽपि क्षीणे सर्वक्षयप्रसङ्गो यत् । साङ्कर्यादेर्यायात् तद्भेदो हान्यथा नियमात् ॥ ८ ॥ मुक्तो न मुक्त एव हि संसार्यपि सर्वथा न संसारी । मानमपि मानमेव हि हेत्वाभासोऽप्यसावेव ॥ ९ ॥ एवं सप्रतिपक्षे सर्वस्मिन्नेव वस्तुतत्त्वे ऽस्मिन् । स्याद्वादिनः सुनीत्या न युज्यते सर्वमेवेह " ॥ १० ॥ इत्यादि । तथा चोक्तमन्यैरपि एतदेवेत्याह- यः पश्यतीत्यादि । यः पश्यत्यात्मानमनादिमोहात्, तत्रात्मनि, अस्यात्मदर्शिनः, अहमित्येवं, शाश्वतः स्नेहः विषयनित्यतया । ततः किमित्याह - स्नेहाद्धेतोः, सुखेषु तृष्यत्यभिष्वङ्गं करोति । एवमपि किमित्याह- तृष्णा दोषांस्तिरस्कुरुते स्थगयति ॥ १ ॥ तथा गुणदर्शी सन्, परितृष्यन्मोहान्ममेत्येवं
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org