________________
स्वोपज्ञटीकासहिता ।
१५७
अगृहीत इत्यादि । अवगृहीत इत्यनेन क्रमं दर्शयति । अवगृहीते सामान्ये, ईहा प्रवर्तते । तामाह - विषयार्थैकेत्यादि । विषयः स्पर्शादिः, स एवार्यमाणत्वादर्थो विषयार्थः, तस्यैकदेश: सामान्यमानिर्देश्यादिरूपम्, तस्माद् विषयार्थैकदेशात् परिच्छिन्नादनन्तरं स्पर्श मात्रग्रहे तस्य सर्पमृणालस्पर्शसाधर्म्याच्छेषानुगमनेन सद्भूतासद्भूतोष्णत्वादिविशेषत्यागोपादानाभिमुख्यरूपेण, न संशय इव सर्वात्मपरिकुण्ठचित्तभावतोऽननुगमनेन । किमित्याह - निश्चयविशेषजिज्ञासाचेष्टेति । निश्चीयतेऽसाविति निश्चयः मृणालस्पर्शादिः, स एव विशेष्यतेऽन्यस्मादिति विशेषः, तस्य ज्ञातुमिच्छा जिज्ञासा तया चेष्टा बोधः स्वतत्त्वात्मव्यापाररूपा, ईहोच्यते । एवमीहामभिधायाऽवायमभिधातुमाह- अवगृहीत इत्यादि । अनेनापि क्रममाचष्टे । अवगृहीते विषये स्पर्शसामान्यादौ, ततः सम्यगसम्यगिति मृणालस्पर्श इत्येवमादानाभिमुख्यं सम्यक्, तत्र तद्भावानुगुण्यात्; न अहिस्पर्श इत्येवं परित्यागाभिमुख्यमसम्यक्, तत्र तद्भाववैगुण्यात् । इति - एवमीहायां प्रवृत्तायां सत्याम्, ततः किमित्याहगुणदोषविचारणाव्यवसायापनोदोऽवाय इति । इह मृणाले, साधारणो धर्मो गुणः, तत्रासंभवी तु दोषः, तयोर्विचारणा मार्गणा तया व्यवसायो विमलतरबोधः स एवापनोद :- मृणालस्पर्श एवेति नियादपनुदति तत्रेहामिति कृत्वाऽवाय इत्ययमेवंविधोऽपनोदोऽवाय इति, अवैतीत्यवाय: - निश्चयेन परिच्छिनत्तीत्यर्थः । एवमवायमभिधायाधुना धारणाभिधित्सयाह - धारणेत्यादि । धारणेति लक्ष्यं, प्रतिप्रत्तिरुपयोगाप्रच्युतिः । यथास्वमिति । यथाविषयं यो यः स्पर्शादिविषयः मृणालस्पर्शानुभवस्याऽनाश इत्यर्थः तथा मत्यवस्थानमित्युपयोगान्तरेऽपि शक्तिरूपाया मतेः क्वचिदवस्थानम्, तथाऽवधारणं चेति कालान्तरानुभूतविषयगोचरं स्मृतिज्ञानमिति भावः । एवमेतेनाविम्युति-वासना- स्मरणरूपा त्रिविधा धारणेत्युक्तं भवति । न चेत्यादि । चैकत्वादवबोधस्याऽवबोधसामान्यापेक्षया, इह मतिज्ञाने इन्द्रियप्रशे, चातुर्विध्याभावोऽवग्रहादिभेदेन । कुत इत्याह- सर्वथैकत्वासिद्धेः
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org