________________
२९४
अनेकान्तजयपताका
त्वेन, अन्यथा च तद् नीलत्वं योगीति । कुतो न होत्याह- अनेकस्वभावतापत्तेः । सर्वोपसंहारमाह- अत एकस्वभावस्य वस्तुनः पुरुषदानादिचेतनादः, सर्वेषां पुत्रादीनाम् , तुल्यं ग्रहणमग्रहणं च, इति सन्न्यायरणस्तम्भः ॥
न च तत्र पारम्पर्येण तत्तत्कार्यसाधनशक्तिनिश्चयः, तथाऽप्रतीतेः, अस्ति च तत्कात्यग्रहीतुर्योगिनः; इतरथा योग्य-ऽयोगिनोस्तत्र विशेषाभावप्रसङ्गात्, तथा च दृष्टेष्टविरोधः। इति न ह्यर्थसनिधिरित्येवायोगिनां सर्वाकारमेव तदवगम इति कृतं प्रसङ्गेन तथा चोक्तम्"वस्तुनोऽनेकरूपस्य नेन्द्रियात् सर्वथा गतिः । चित्रावरणयोगेन प्रमातुः किन्तु देशतः ॥१॥ एवं च विप्रकृष्टस्य सनिकृष्टस्य चैकदा । उष्ट्रादौ बुद्धिभेदेनानेकरूपत्वसंस्थितिः ॥ २॥ अप्रधानीकृतौष्ट्रयादिविशेष प्रतिपद्यते । विप्रकृष्टः पुमान् सत्त्वं वस्त्रादौ रक्ततादिवत् ॥३॥ सनिकष्टोऽपि चौष्ट्यादि तूर्ण सन्चौपसर्जनम् । रक्तादाविव वस्त्रादि विशिष्टं तीववीर्यतः॥४॥ अप्रधानं च यत् प्रोक्तमुष्ट्रत्वायत्र तत्तथा । प्रतिपत्तारमाश्रित्य न तु तत्वव्यपेक्षया ॥५॥ अन्योऽन्यव्याप्तिरूपेण द्वयोस्तद्भावसिद्धितः । अमुख्य-गुणभावेन तत्त्वतस्तूभयात्मकम् ॥ ६ ॥ एकान्तैक्ये तु भावानां कार्याभेदादनिश्चितिः । नैकस्मादुत्तरो भावो ज्ञानं चेति सुनीतितः ॥ ७॥ हेत्वभेदान्न चाज्ञाते तद्ध्वनिः संप्रवर्तते ।
एवमेकस्वभावत्व उपपन्नौ न धी-ध्वनी ॥ ८॥" इत्यादि कृतं विस्तरेणेति ।।
॥ इति तृतीयोऽधिकारः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org