________________
खोपज्ञटीकासहिता ।
२७५ णामाविनाभावाभावात् तद्विशेषपरिणामस्येति । अतः प्रयासमात्रफला प्रवृत्तिनियमोच्छेदचोदनेति ॥ ... स्यादेतदित्यादि स्यादेतदथैवं मन्यसे, समानपरिणामस्यापि मृदाद्यात्मकस्य, प्रतिविशेष विशेष विशेष प्रति घट-शरावादिलक्षणम् , अन्यत्वात कारणात् , असमानपरिणामवदिति निदर्शनम् , तद्भावानुपपत्तिः समानपरिणामभावानुपपत्तिरिति । एतदाशङ्कयाह- एतदप्पयुक्तम् । कथमित्याह- सत्यप्यन्यत्वे समानपरिणामस्य प्रतिविशेषम् , समाना-ऽसमानपरिणामयोरुक्तलक्षणयोः, भिन्नस्वभावत्वात्। भिन्नस्वभावत्वमेवाह- तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । समानधिषणा-ध्वनिनिबन्धनस्वभावस्तुल्यबुद्धि-शब्दहेतुस्वभावः, समानपरिणामः, यतः खलु घट-शरावादिषु 'मृद् मृद्' इत्यविशेषेण भवतो धिषणा-ध्वनी; तथा विशिष्टबुद्धयऽभिधानजननस्वभावस्त्वितरोऽसमानपरिणामः, यतः खलु घटादिष्वेव 'घटः शरावम्' इत्यादिविशेषेण भवतो बुद्धय-ऽभिधाने इति । एवमधिकृतोदाहरणापेक्षया भावार्थमभिधाय पूर्वपक्षोपन्यस्तभेदापेक्षया प्रक्रान्तनिगमनायाह- यथोक्तसंवेदनेत्यादि यथोक्ते च ते संवेदना-ऽभिधाने च तयोः संवेद्याभिधेया इति विग्रहः; एवंभूता एव च विषादयः; तथाहि-'सत् सत्' इति विषा. दयः संवेद्यन्ते, अभिधीयन्ते च, तथा 'विषमोदकः' इत्येवं चेति प्रतीतमेतत् । अन्यथा यथोक्तसंवेदनाभिधानसंवेद्याभिधेयत्वाभावे, यथोक्तसं. वेदनाद्यभावप्रसङ्गात् , आदिशब्दाद् यथोक्ताभिधानग्रहः । अतो यद्यपि द्वयमपि विषं मोदकश्चेति, उभयरूपं सामान्यविशेषरूपम् , तथापि विषार्थी प्रमाता विष एवं प्रवर्तते । कुत इत्याह- तद्विशेषपरिणामस्यैव विषविशेषपरिणामस्यैव, तत्समानपरिणामाविनाभूतत्वाद् विषसमानपरिणामाविनाभूतत्वात् ; न तु मोदके न पुनर्मोदके । कुत इत्याह-तत्समानपरिणामाविनाभावाभावात मोदकसमानपरिणा. माविनाभावाभावात् , तद्विशेषपरिणामस्येति विषविशेषपरिणामस्येति । अत उक्तन्यायात्, प्रयासमात्रफला प्रवृत्तिनियमोच्छेदचोदना पूर्वपक्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org