________________
स्वोपज्ञटीकासहिता ।
२३३ रसादिभावः । आदिशब्दाद् गन्धादिग्रहः । कथं न रसादिभाव इत्याह- तथाsदर्शनात् । न चात्र मानसाद् विकल्पजन्मनि किञ्चिद् भेदकमस्ति । कुत इत्याह- अनभ्युपगमात् । अभ्युपगमेऽपि सति भेदकस्य वासनादेः, ततो भेदकादतिशयासिद्धेरिति निवेदयिष्याम ऊर्ध्वम् । गतो मानसपक्षः ||
अथान्यैव काचित् । काऽसाविति वाच्यम् १ | अनादिमदालयगतशक्तेः स्वलक्षणदर्शन सहकारिभावतो विशेषकरणम्, तथाहि - सा तदनुभवं प्राप्याक्षेपेण तथाविधविकल्पजननस्वभावोपजायत इति स्वलक्षणदर्शनाहितेत्युच्यते । अत एव न भिन्नविकल्पसम्भवाभावः, तथाविधशक्तिसहकारित्वेन तदनुभवस्य तदविरोधादिति । एतदपि यत्किञ्चित् तस्य तत्सहकारित्वासिद्धेः, ततस्तस्या उपकाराभावात्, अनुपकार्योपकारकयोश्व सहकारित्वायोगात् । द्विविधो हि वः सहकारार्थः परस्परातिशयाधानेन सन्ताने विशिष्टक्षणोत्पादनलक्षणः, पूर्वस्वहेतोरेव समग्रोत्पन्नैककार्यक्रियालक्षणश्च । न चानयोरेकोऽपि सम्भवति, क्षणिकत्वेन परस्परातिशयाधानायोगात् । अतिशय उपकार इत्यनर्थान्तरम् । न चासावन्यतोऽन्यस्य, विकल्पायोगात् ॥
द्वितीयं विकल्पमधिकृत्याह - अथान्यैव काचित् तथाविधविकल्पजननशक्तिः । एतदुररकृित्याह- काऽसाविति वाच्यम् ? । अनादिमती चासावालयगतशक्तिश्चेति विग्रहः, तस्याः स्वलक्षणदर्शनसहकारिभावतः प्रवृत्तिविज्ञान सहकारिभावत इत्यर्थः, विशेषकरणमतिशयकरणं सा । एतदेव भावयति - तथाहीत्यादिना । तथाहि सानादिमदालय गतशक्तिस्तदनुभवं प्राप्य स्वलक्षणदर्शनमासाद्य, अक्षेपेणाव्यप्रधानेन, तथाविधविकल्पजननस्वभावा - अनित्यादिविकल्पजननखभावोपजायत इति कृत्वा स्वलक्षणदर्शनाहितेत्युच्यते । अत एव कारणाद् भिन्नविकल्प संभवाभावः, किं तर्हि ? संभव एव । कुत इत्याह
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org