SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ खोपज्ञटीकासहिता। अन्यथा तस्य वस्तुनः, तदनुपपत्तेः अनेकस्वभावत्वाऽनुपपत्तेः । किमित्याह- चित्राऽऽस्तरणवद् इति निदर्शनम् , एकदा एव एकास्मन् एव काले, किं न अर्थविशेषप्रतिपत्तिः सनिधानाऽविशेषेऽपि इति गर्भः ?, येन, एतद् अनन्तरोदितम्- एवं तदितरधर्माऽऽलोचनादिस्वेन इति । एतदाशकंयाऽऽह-ग्रहीतुः क्षयोपशमाऽभावाद् एतद् एवमित्युक्तप्रायं प्रायेण उक्तं प्राक् ।। .. एवम् , ईहादेः कथञ्चिद् अनधिगतार्थाऽधिगन्तृत्वात् , एकाऽधिकरणत्वात् , बोधवृद्ध्युपपत्तेः, आलोचिताधिगमाव , तत्स्थैर्यसिद्धेः, तथाऽनुभवभावात् , प्रतिक्षेपाऽयोगाव , बाधकानुपपचेः न्यायत एव व्यवस्थितं प्रामाण्यम् ।। . एवमित्यादि । एवमुक्तनीत्या, ईहादेः मत्तिविशेषजातस्य न्यायत एव व्यवस्थितं प्रामाण्यमिति योगः । हेतूनाह-कथंचिद् अनधिगताऽर्थाऽधिगन्तृत्वाद् अवग्रहबोधाऽपेक्षया, तथा एकाऽधिकरणत्वात् तद्वस्तुतत्त्वाऽपेक्षया, तथा बोधवृद्ध्युपपत्तेः अर्थाऽनुभवभावेन, तथा आलोचिताऽधिगमाद् दृष्टपरिच्छेदेन, तथा तत्स्थैर्यसिद्धेः बोधाऽवस्थानेन, तथा अनुभवभावाद् अचिच्युतिरूपधारणया, तथा प्रतिक्षेपाऽयोगात् अधिकृताऽनुभवस्य, अयोगश्च बाधकाऽनुपपत्तेः कथंचिद् ग्रहणमपि यथायोग योजनीयम्, एवं न्यायत एव व्यवस्थितं प्रामाण्यम्-ईहादेरिति प्रक्रमः ।। तथा सद्व्याद्यनेकस्वभावता च वस्तुनस्तथाऽनुभवसिद्धत्वादिति । किं हि सत्त्वाद् अन्यद् द्रव्यादि इति चेत् ? प्रतीतमेतद् यत् तस्मिन् गृहीतेऽपि कथञ्चिद् गृह्यत इति । नैवंविधं किश्चिद् अवगच्छाम इति चेत्, किं न भवति भवतः कचिद् घटादौ ससन्मात्रग्रहेऽन्याग्रहः । किं तद् यद् भूयो गृह्यत इति चेत् ?, ननु बालादिसिद्धं तदनुविद्धमेव विशिष्टं मृदूंपादि । न तत् तत्सचितोऽन्यद् एव इति चेत्, सत्यमेतत्., किन्तु तन्मात्रमपि न भवतीति । तथा प्रतीतेनिश्चयाऽनुभवेन अविगानत एव ए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002732
Book TitleAnekantajaypataka Swopagnya Tika
Original Sutra AuthorHaribhadrasuri
Author
PublisherZZZ Unknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy