________________
खोपज्ञटीकासहिता।
२१९ अवग्रहोत्तरकालम् , अविगानतः अविगानेन एव, एकत्र वस्तुनि । किमित्याह-सन्मृद्रूपाऽऽकारवेदनात् । यदि नामैवं ततः किमित्याहसन्मात्राद् एव एकस्वभावात् , एतदनुपपत्तेः सन्मृद्रूपाकारवेदनाऽनुपपत्तेः, अनुपपत्तिश्च अतिप्रसङ्गात् , अतिप्रसङ्गश्च रूपमात्रात सकाशात् , रूप-रसादिनिश्चयापत्तेः सन्मात्राद् इत्र विजातीयनिश्चयन्यायेन । इहैव दोषान्तरमधिकृत्य आह- न चेत्यादि । न च सत्त्वाऽऽकारयोः अपि इह अधिकृतयोः, अभेद एव एकान्तेन । कुत इत्याह- अनेकदोषप्रसङ्गात् । एनमेव आह- तथाहि इत्यादिना। तथाहि- "घट. सत्त्वं तावद् एकं निरंशं स्खलक्षणम्" इत्यऽविचारितरमणीयेन भवदs. भ्युपगमेन, तस्य मृद्पाद्यात्मकत्वे सकललोकाऽनुभवसिद्धे अभ्युपगम्यमाने एकत्वहानिः मृदादिशाबल्येन, तदनभ्युपगमे मृद्रूपाद्यात्मकत्वाऽनभ्युपगमे, प्रतीतिबाधा मृद्रूपादिप्रतीतेः, तथा एकत्वेऽपि सत्त्वाऽऽकारयोरिति प्रक्रमः, कस्य असौ आकारः रूपादिसवाऽपेक्षया इति वाच्यम् ? । किञ्च अतः ?, सर्वथा अपि दोष इत्याहन रूपसत्त्वस्य असौ आकारः । कुत इत्याह- त्वगिन्द्रियेण अपि ग्रहणात् कारणात् । यद्येवं ततः किमित्याह- तस्य च त्वगिन्द्रियस्य रूपाऽविषयत्वात् , अविषयत्वं च तथा त्वगिन्द्रियस्य रूपविषयत्वेन अप्रतीतेः, तत्सत्त्वस्य च रूपसत्त्वस्य च, तत्त्वाद् रूपत्वात् , एवं न स्पर्शसत्वस्य असौ आकार इति गम्यते । कुत इत्याह- चक्षुषा अपि उपलब्धेः कारणात् । ततः किमित्याह- स्पशोत् सकाशात् , तत्सविभेदप्रसङ्गात् स्पर्शसत्त्वभेदप्रसङ्गात् , प्रसङ्गश्च रूपे अपि अनुगमोअपत्तेः । इत्थं च एतद् इत्याह- अन्यथा एवमनभ्युपगमे अनुभववि.
धात् , चक्षुषा तदुपलब्धिरिति अनुभवः, न च उभयसत्त्वस्य रूप-स्पर्शसत्त्वस्य, असौ आकार इति प्रक्रमः । कुत इत्याहदेकत्वाऽयोगात् तस्य आकारस्य एकत्वाऽयोगात् , उभयाऽव्यतिकेण योगे अपि इन्द्रियसंकरप्रसङ्गाद् विषयसाङ्कर्येण, संकरें च लो. विरोधाऽऽपत्तेः, एवमसमञ्जसत्वादिति । न च इत्यादि । न च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org