________________
५६
अनेकान्तजयपताकारेण भेदः कथं तेनैवाऽभेदः , धर्मधर्मिणोरिति वर्तते । अथाभेदः कथं भेद इति निमित्ताभेदेनेत्यर्थः, अस्य वचनस्य पूर्वपक्षसङ्गतस्य उक्तवद्ध्यपेतविषयत्वात् व्यपेतविषयत्वं च प्रकारान्तरेण जात्यन्तरा. त्मकत्वेन भेदाभेदसिद्धेः । सर्वथा भेदाभेदवादिनस्त्वेकान्तवादिनः । किमित्याह- तदसत्त्वापत्तिलक्षणो धर्मिधर्मासत्त्वापत्तिलक्षणः, वि. रोधः । किमित्याह- अपरिहार्य एव अपरिहरणीय एव। एतदेव भा. वयति- तथाहीत्यादिना तथाहीत्युपप्रदर्शने, एकान्तत एव धर्म धर्मिणो देऽभ्युपगम्यमाने सति। किमित्याह- धर्मिणो निःस्वभावत्वापत्तिः । कुत इत्याह-वभावस्य धर्मत्वात् । ततः किमित्याहतस्य च स्वभावस्य, ततो धर्मिणः, अन्यत्वादिति । स्वो भावः स्वभाव स्तस्यैव धर्मिणः, आत्मीया सत्ता इत्येवम् , शब्दार्थे सति, न निःस्वभावत्वापत्तिः धर्मिणः, इति चेत् । एतदाशङ्क्याह- नेत्यादि । न नैतदेवम, ज्ञेयत्वादिधर्माननुवेधे सति, आदिशब्दात् प्रमेयत्वादिपरिग्रहः, तदनवगतेः तस्याधिकृतधर्मिणोऽनवगमात् ; न ह्यज्ञेयस्व. भावं सदपि ज्ञायत इत्यर्थः । तथापीत्यादि । तथाप्यनवगमेऽपि, तत्कल्पने धर्मिकल्पने, अतिप्रसङ्गः अन्यस्य कस्यचिदनवगतस्य कल्पनापत्तेरिति ॥
"धर्माणामपि तदभावे निराश्रयत्वात् केवलानां ग्रहणानु: पपत्तेस्तदितराननुवेधादभाव एवेति तदसत्त्वापत्तिः । एकान्ताभेदेऽप्यन्यतराभावतस्तन्नान्तरीयकत्वात् तव्यतिरेकेण तत्स्वरूपानुपपत्तेर्नि/जकल्पनाऽसम्भवात् , अतिप्रसङ्गाव्याहतेः, अ. न्यतरभावस्यैवान्यतरकल्पनाबीजत्वायोगात् , एकान्तकस्वभाः वत्वहानेः, तथाविधैकस्वभावत्वस्य न्यायविरुद्धत्वात् , शक्तिभेदमन्तरेण कार्यभेदासिद्धेः, तदितरव्यावृत्तेरपि तत्त्वतस्तदव्य तिरेकात् , तद्भेदे च तद्भेदोपपत्तेः, अभिधानभेदतो धर्मसिद्धिन सङ्गादन्यतरस्याप्यभाव एवेति तदसत्त्वापत्तिरेव । एतेन अथ येनाप्याकारेण भेदस्तेनापि भेदश्चाभेदश्चेत्यायपि निराकृत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org